तत्प्रतिषेधार्थमेकतत्त्वाभ्यासः ॥ ३२ ॥
विक्षेपप्रतिषेधार्थमेकतत्त्वालम्बनं चित्तमभ्यसेत् ।
[ विवरणम् ] दौर्मनस्यमिच्छाविघाताच्चेतसः क्षोभः आकुलीभावः सञ्चलनम् । यदङ्गान्येजयति कम्पयति तदङ्गमेजयत्वम् । (न तच्च प्राणायामाद्यथाभ्यासप्रभवश्वासावपि तथा समुद्भवः) यद्बाह्यं वायुमाचामति बाह्यवायोराकर्षणबाहुलकं[ल्यम्]निष्क्रमणमन्दता च श्वासः । तद्विपरीतव्यापारः प्रश्वासः-- यत्कौष्ठ्यं वायुं निस्सारयति । एते विक्षेपसहभुवः विक्षेपैः सहैते विक्षिप्तचित्तस्यैव भवन्तीति विक्षेपसहभुवः । समाहितचित्तस्यैते न भवन्तीति यावत् । यावद्यावच्चेतः समाधीयते तावत्तावन्न भवन्तीति । ताभ्यामेवाभ्यासवैराग्याभ्यामुपशमयितव्याः । नान्यं प्रतिपक्षमपेक्षन्ते ॥
अभ्यासवैराग्ये मुक्त्वा न हि परमेश्वरप्रणिधायिन्यः[भ्यः]प्रभावो भवतीति गम्यते । 'अन्तरायाभावश्च' इत्युक्त्या प्राक्तनादपीश्वरप्रणिधानादन्तराया निरुध्यन्ते ॥ ३१ ॥
अभ्यासवैराग्याभ्यां तन्निरोध इत्युक्तम् । तत्र वैराग्यविषयः प्रतिपादितः । इदानीमभ्यासस्य विषयमुपसंहरन्नाह--तत्प्रतिषेधार्थमेकतत्त्वाभ्यास इति । तेषां विक्षेपाणां प्रतिषेधाय तत्प्रतिषेधार्थम् । एकं तत्त्वमेकतत्त्वम् । तच्चैकं तत्त्वं वस्तुत्वान्नाभ्यसितुं शक्यम् । न ह्यात्मादिवस्तूनां
पातञ्जलयोगसूत्रभाष्यविवरणे [ भाष्यम् ]
यस्य तु प्रत्यर्थनियतं प्रत्ययमात्रं क्षणिकं च चित्तं तस्य सर्वमेव चित्तमेकाग्रम् । नास्त्येव विक्षिप्तम् ।
यदि पुनरिदं सर्वतः प्रत्याहृत्य एकस्मिन्नर्थे समाधीयते, तदा भवत्येकाग्रमित्यतो न प्रत्यर्थनियतम् ।
शीलनं वक्तुं शक्यते । स्वमाहाभाग्यावस्थितानि हि तानि न चित्तमात्राणि । वस्तूनां तु चित्ततन्त्रतां प्रतिषेधयिष्यति--'न चैकचित्ततन्त्रं वस्तु’ इत्यादिना । तस्मादेतदाशङ्कमानो भाष्यकार आह--एकतत्त्वालम्बनं चित्तमभ्यसेदिति । सूत्रेऽप्येकतत्त्वाभ्यास इति समासादयमर्थ उपात्त एव ॥
ननु नैकं चित्तमवस्थितमस्ति, यस्यैकतत्त्वावलम्बनः प्रत्यय आपद्येत । प्रत्यया एव चित्तम्, ते च प्रत्यर्थं नियताः क्षणप्रणाशिनश्च प्रत्यात्मसंवेद्यं च प्रत्ययानामनवस्थितत्वम् । नापि प्रत्ययव्यतिरेकेणावस्थितं प्रत्ययि चित्तं नामोपलभ्यते । योऽप्यहमेवाहमिति प्रत्ययः सोऽपि समानसन्ततिपतितत्वात्सादृश्यनिबन्धनः । यथा स एव प्रदीपः त एव केशा इति ।
तदप्याह--प्रत्यहं[प्रति]प्रत्ययं प्रत्ययी भिन्नः, प्रत्ययेभ्योऽत्यन्तपरस्परभिन्नेभ्योऽनन्यत्वात् । एकैकप्रत्ययस्वरूपसद्वर्तमानाहंप्रत्ययविषयः प्रत्ययी भूतभविष्यत्कालाहंप्रत्ययविषयात् प्रत्ययिनो भिन्नः, भिन्नप्रत्ययविषयत्वात् , घटात् (घ) पट इव । यदि वा--भिन्नकालत्वात्, विनष्टभविष्यद्घटाभ्यां वर्तमानो घटः [इव] । अहंप्रत्यया वा सर्वे भिन्नालम्बनाः, प्रत्ययत्वात्, घटपटादिविषयप्रत्ययवदिति ॥
अत्राभिधीयते-स्वशास्त्रविरोधोऽपि स्यादेवं ब्रुवत इत्याह--क्षणिकं च यस्य चित्तं तस्य सर्वमेव चित्तम् एकाग्रम् विक्षेपाभावादेव नास्त्येव विक्षिप्तमिति सर्वचित्तैकाग्रत्वाद्विक्षेपप्राप्त्यभावाद्विक्षेपप्रतिषेधाय शास्त्रोपदेशोऽनर्थकः स्यात् । अस्ति च चित्तपरिकर्मार्थं मैत्र्याद्युपदेशः । स च विरुध्येत इत्थं धर्मं चित्तमभ्युपगच्छतः ॥
ननु च तवापि वृत्तिवृत्तिमतोरभेदादनुपपन्नो विक्षेप इति तत्प्रतिषेधोपदेशानर्थक्यम्---नैष दोषः---वृत्तिवृत्तिमत्त्वाभ्युपगमात् ॥
योऽपि सदृशप्रत्ययप्रवाहेण चित्तमेकाग्रं मन्यते, तस्य एकाग्रता यदि प्रवाहचित्तस्य धर्मः, तदा एकं नास्ति प्रवाहचित्तम् ; क्षणिकत्वात् ।
यदि वृत्तय एव परस्परभिन्नाः स्वतन्त्रा वृत्तिमतोऽत्यन्तभिन्ना जायेरन् प्रत्यर्थनियताश्च, तत एष दोषः स्यात् । न चैवमभ्युपेयते ॥
कथं तर्हि ? वृत्तिमद्रूपेणैकमनेकार्थं च तद्वृत्तीनां विषयभेदादवस्थितं च सदसतोर्विपर्ययानभ्युपगमादित्येवमात्मपक्षे समञ्जसतां दर्शयति--यदि पुनरिदं चित्तं वृत्तिभेदेनानेकधा (म्मिलावयवद्धि) प्रसृतं साङ्ख्ययोगवादिन इव तवापि सर्वतः सर्वेभ्यः विषयेभ्यः प्रत्याहृत्य प्रत्यानीयैकस्मिन्नात्माद्यर्थे समाधीयेत स्थाप्येत तदा भवत्येकाग्रं पुरुषप्रयासभाव्यत्वार्हमित्यर्थः ॥
ततो युक्तस्तत्परिकर्मणे शास्त्रोपदेशः । (अतो न प्रत्यक्षम्) अतोऽस्मात् कारणात् तत्परिकर्मविषयशास्त्रोपदेशात् सांख्ययोगवादिवत् क्षणिकवादिनोऽपि एकमनेकार्थमवस्थितं च चित्तं न प्रत्यर्थनियतं (वा) पश्चादभ्युपगमनीयम् । अन्यथा शास्त्रविरोधः स्यात् । योऽपि सदृशप्रत्ययप्रवाहं चित्तमेकाग्रं मन्यते सदृशः समानः प्रत्ययप्रवाहो यस्यैकस्यां सन्ततौ तच्चित्तमेकाग्रम् । तद्विपरीतम् असमानप्रत्ययप्रवाहं विक्षिप्तम् । तथा चैकाग्रता विक्षेपप्रतिषेधेनोपपद्यते, तदर्थोपदेशश्चेति कुतः शास्त्रविरोध इति ॥
इतर आह--न--प्रवाहचित्तस्यैकस्य धर्मिणोऽनभ्युपगमात् । न हि प्रवाहचित्तं नामैकमतीतवर्तमानभविष्यत्प्रत्ययानां धर्मिणमभ्युपगच्छति । यदि ह्यभ्युपगच्छेत् परित्यक्तः स्वपक्षः । कस्मात् ? प्रवाहचित्तस्याक्षणिकत्वात्तदेवैकं नास्ति, यस्यैकाग्रता धर्मः। प्रत्ययानेव ह्यन्योन्यसंहतान् पिपीलिकापङ्क्तिकल्पानसावभ्युपगच्छति ॥
अथैवं मन्यते, यद्यप्येकं नास्ति तथापि सर्वेषामेव प्रत्ययानां सदृशप्रवाहाणामेकाग्रता धर्मः प्रदीपार्चिषामिव प्रकाश इति--तत्राह--नायुगपत्कालोत्पत्तिविनाशानां समाहारः सम्भवति । दृष्टान्तस्य च साध्यविकलत्वात् । न हि बह्वीनामर्चिषामेकः प्रकाशः । प्रत्यर्चिषमस्य भेदात् । नचापि प्रकाशस्यार्चिषां चैको धर्मो ना[मा]स्ति ॥
अथ प्रवाहांशस्यैव प्रत्ययस्य धर्मः, स सर्वः सदृशप्रत्ययप्रवाही वा विसदृशप्रत्ययप्रवाही वा प्रत्यर्थनियतत्वादेकाग्र एवेति विक्षिप्तचित्तानुपपत्तिः । तस्मादेकमनेकार्थमवस्थितं चित्तमिति ॥
यदि च चित्तेनैकेनानन्विताः स्वभावभिन्नाः प्रत्यया जायेरन्, अथ कथमन्यप्रत्ययदृष्टस्यान्यः स्मर्ता भवेत्, अन्यप्रत्ययोपचितस्य च कर्माशयस्यान्यः प्रत्यय उपभोक्ता भवेत् ॥
अथापि मन्यते प्रवाहांशस्यैव प्रत्ययस्य कस्यचिदेकाग्रता धर्मः, यथैकस्यां पिपीलिकासन्ततावेकापि पिपीलिका लोहितेति--तच्च न--पूर्वदोषानुषक्तेः । सर्वः प्रत्ययः प्रवाहांशः सदृशवाही विसदृशवाही वा पूर्ववत् प्रत्यर्थनियतत्वादेकाग्र एवेति विक्षिप्तचित्तानवलृप्तिः । तस्मादेकमनेकार्थमवस्थितं च चित्तमभ्युपगन्तव्यम् । यदि शास्त्रेण चित्तपरिकर्मोपदेक्ष्यते ॥
किं च-- यदि चित्तेनैकेनानन्विताः करणेन स्वभावभिन्नाः प्रत्यया जायेरंस्तदा ब्रूहि कथमन्यप्रत्ययदृष्टस्यान्यः प्रत्ययः स्मर्ता भवेद्देवदत्तदृष्टस्येव यज्ञदत्तः । अन्यप्रत्ययोपचितस्य वा कर्माशयस्यान्यः प्रत्यय उपभोक्ता ॥
न हि भविष्यत्पुत्रः पित्रा रचितकर्माशयफलं स्वर्गादि प्रत्युपभुञ्जीत । अथ ब्रूयात्---विशिष्टभविष्यत्पुत्रविज्ञानार्थं विनश्यत्प्रवृत्तिविज्ञानमालयविज्ञानसंस्कारं कञ्चनाधत्ते इति—नैतदेवम्—आलयप्रवृत्तिविज्ञानयोरत्यन्तभेदादवस्तुत्वाच्च ॥
यद्यालयविज्ञानान्न तत्प्रवृत्तिविज्ञानं, तदा तदेव तदिति नाममात्रभेदः, तथा च संस्काराधानायुक्तत्वात् स्मृत्यनुपक्लृप्तिः । अथाप्यन्यत्--एवमप्यन्यत्प्रवृत्तिविज्ञानमालयविज्ञाने संस्कारं नादधीत, भिन्नत्वात् । यथा सन्तत्यन्तरालयविज्ञाने ॥
किं च—-यद्यपि संस्कारमाधत्ताम्, तथापि प्रवृत्तिविज्ञानापादितसंस्कारमालयविज्ञानं देशकालान्तराक्षमम् । तस्यापि क्षणिकत्वाभ्युपगमाद्विनश्यच्च तावत्येव नोत्तरविज्ञानोपकाराय पर्याप्नोति । देशकालान्तरव्यवहितं चेदुपकुर्वीत, तदा भिन्नसन्तानान्तरजन्मनाप्युपकर्तव्यम् ॥
अथ कालान्तरावस्थायि, तदा क्षणिकत्वहानिः । क्षणान्तरं चेदवतिष्ठेत, दीर्घकालावस्थायित्वे कस्य स्यादक्षमा ॥
अथापि प्रवृत्तिविज्ञानसंस्कारविशिष्टस्यान्तरालभाविन आत्मसदृशस्य भविष्यत आलयविज्ञानस्य संस्कारमाधाय पूर्वमालयविज्ञानं विनङ्क्ष्यतीति--
तच्च न--संस्कारान्तराभावात् । अस्ति चेदनवस्थाप्रसङ्गः । अथ नास्त्याधारः, तत्र किं प्रवृत्तिविज्ञानस्यालयविज्ञानकल्पनया संस्काराधानाय । यथा आलयविज्ञानमुत्पित्सिष्यमाणस्य तत्कालमसतः आलयविज्ञानस्य संस्कारमाधत्ते, तथा प्रवृत्तिविज्ञानमपि उत्पित्सिष्यमाणस्य तत्कालमसतः प्रवृत्तिविज्ञानस्यैव संस्कारमाधत्तामनपेक्ष्यालयविज्ञानम् ॥
न च विनश्यत् अन्यस्य भाविनस्तत्कालमविद्यमानस्य संस्कारमाधत्ते इत्यस्य दृष्टान्तो दृश्यते । नापि भाविन्येव संस्कारं कुर्वीत । पूर्वेण भविष्यत्संस्क्रियते, भविष्यति चेति विरुद्धम् । तत्कालं चेदसद्भविष्यत्संस्क्रियते, किं तुल्यातुल्यसन्ततिकल्पनेन ? असंबन्धाविशेषात् सर्वं सर्वेण संस्क्रियेत ॥
नापि भविष्यद्विनश्यतोर्युगपदुत्पत्तिविनाशावक्षणिकत्वप्रसङ्गात् । अथ तुलान्तयोरिव नत्युन्नती युगपत्पूर्वविनाशोत्तरसमुत्पत्ती स्याताम् (न) वस्तुनोरिति चेत्--न--अभ्युपगमविरोधात् । न हि वैनाशिकेनोत्पत्तिविनाशक्रियाव्यतिरेकेण कारकमन्यदिष्यते । अभ्युपगमे च सिद्धान्तविरोधः ॥
किंच—अन्यत्वे च क्रियाकारकयोर्यावत्क्रियोत्पत्ति कारकेणावस्थातव्यं, ततश्च क्षणिकत्वहानिः । अ[न]वस्थाने च क्रियार्थं ततः[तस्य] उपादानमनर्थकम् ॥
किं चान्यत्--क्रियाया एव कारकत्वे कारकस्यापि क्रियात्वे क्रियाकारकशब्दौ पर्यायौ स्याताम् । ततश्चाङ्कुरो जायते, देवदत्तो जायत इत्यङ्कुरदेवदत्तयोः पर्यायत्वं स्यात् । तयोर्जनिक्रियामात्रत्वात् ॥
अथ अन्यजनिक्रिया देवदत्तविशिष्टा अन्या चाङ्कुरविशिष्टेति चेत्—-अभ्युपेतं तर्हि विशेषणं कारकं, न हि स्वरूपेण किञ्चिद्विशिष्टं स्यात् ॥
अथोच्येत, स्वरूपेणैवोत्पत्तिक्रिया उत्पत्तिक्रियान्तराद्विशिष्टा यथा स्वलक्षणानि रूपादीनि इति--तच्च न--भावाभावयोरेकत्वप्रसङ्गात् । इहाङ्कुरो जायते नश्यत्यङ्कुर इति च य एव जायते स एव नश्यति तत्राङ्कुरजनन-
कथञ्चित् समाधीयमानमप्येतत् गोमयपायसीयन्यायमाक्षिपति ।
किंच—स्वात्मानुभवापह्नवः चित्तस्यान्यत्वे प्राप्नोति । कथम् ? ‘यदहमद्राक्षं तत्स्पृशामि’ ‘यच्चास्प्राक्षं तत्पश्यामि’ इत्यहमिति प्रत्ययः
मङ्कुरविनाशनमिति जननं विनाश इत्युक्तं भवति । अङ्कुरो हि क्रियैव कारकमिति वोच्येत । (चितः) ॥
अथापि स्यात्—अन्यै(न्यस्यै)वाङ्कुरजननक्रियाया अङ्कुरविनाशक्रियेति—तथाऽप्यङ्कुरजननस्य नित्यत्वप्रसङ्गः । विनाशस्यान्यत्वादेव ॥
अथापि नाशजननवद्वस्तु शबलमिति, तथाऽप्यभावस्य शबलत्वं प्रसज्येत । कथम् ? क्रियाव्यतिरिक्तस्य कारकस्याभावेऽपि नाश एव जननविनाशवान् जननमेव जननविनाशवदिति । न ह्यभावस्य शबलत्वादिविशेषो निर्विशेषत्वाद्भावाभावयोश्चाविरोधात् प्रत्यक्षानुमानानुपपत्तिः ॥
यदप्युच्यते—तुलान्तयोर्नामोन्नामाविति—तत्र युक्ता तुलान्तयोरेककालयोर्विद्यमानत्वादन्यतरस्य वस्त्वन्तरगौरवनिमित्ता आनतिरन्यतरस्य चोन्नतिः । इह पुनर्भवद्भविष्यत्कालयोर्विज्ञानयोर्नाशोत्पत्ती तुलानामहेतुवत्तृतीयस्य निमित्तान्तरस्याभावादेककालं नोपपद्येते । विनश्यदेव विज्ञानमात्मसदृशं जनयतीति न शक्यं वक्तुम् । न हि देवदत्तो म्रियमाण एवात्मसमानं पुत्रं जनयति विनाशेनाक्षणत्वात् ॥
अथ मृत्पिण्डो यथा घटमुत्पादयन् विनश्यति, तद्वदिति चेत्—तच्च न—मृदवयवानामेव घटाकारेण परिणतत्वात् । एकैव हि मृत्पिण्डघटादिबहुधर्मयोगिनी ॥
यच्चापि बीजेषु द्रव्यान्तरवासितेषु वासकद्रव्यानुविधायित्वं वास्यद्रव्यस्येति—तदप्यकारणम् वास्यवासकयोरवस्थितत्वात् । अवस्थितान्येव हि बीजेष्वङ्कुरादीनि वास्यन्ते बीजवासनेन । तदन्यत्वात् वासकद्रव्यस्याप्यवयवाननुप्रविष्टाः सूक्ष्मा विद्यन्त एव । तस्माद्विद्यमानान्येवाङ्कुरादीनि बीजवासनया वास्यन्त
[ भाष्यम् ]
सर्वस्य प्रत्ययस्य भेदे सति प्रत्ययिन्यभेदेनोपस्थितः । एकप्रत्ययिविषयोऽयमभेदात्मा अहमिति प्रत्ययः कथमत्यन्तभिन्नेषु चित्तेषु वर्तमानः सामान्यमेकं प्रत्ययिनमाश्रयेत । स्वानुभवग्राह्यश्चायमभेदात्मा अहमिति प्रत्ययः ।
इति युक्तम् । असतां शविषाणादीनामुत्पत्त्यभावात् । असतां चेदुत्पत्तिः स्याद्वास्यवासकयोर्विनष्टत्वादविद्यमानत्वाविशेषे वासकद्रव्याननुविधायि नोत्पद्येत । अन्यद्वा हस्तादि ॥ यदि वा, अत्यन्तासदेव शशविषाणाद्युत्पद्येत । अतो विशिष्टं हि त्रयाणामसत्त्वं वासिते बीजे । तस्मादवस्थितं कारकं भूतभविष्यत्कालानेकवृत्तियोगिचाभ्युपगन्तव्यम् । अन्यथा प्रत्ययमात्रं क्षणिकं चित्तमिति समर्थ्यमानस्य समाधीयमानमपि (समर्थ्यमानमपि) गोमयपायसीयन्यायमाक्षिपति ॥
यथैव बहुभिरपि गोविकारत्वादिहेतुभिः समीहमाने कृताटोपेनापि गोमयं पायसीकर्तुं न शक्यम्, तथा क्षणिकेन चित्तेन स्मरणादि समर्थयितुम् ॥ किञ्च—स्वात्मानुभवापह्नवः चित्तस्यान्यत्वे प्रत्ययमात्रत्वे नान्यदृष्टमनुस्मरतीति स्वात्मनानुभूतमपह्नुवीत ॥
किं त्वमद्राक्षीरित्युक्तो दृष्टवानपि नाहमद्राक्षमिति ब्रुवीत । अन्येन हि तत्पक्षे तत् दृष्टं दृश्यते । तदपह्नवे चानुभूतस्य प्रतिपत्तिः कथम् ? ‘यदहमद्राक्षं तत् अहमेव स्पृशामि’ ‘यदहमस्प्राक्षं तत् अहमेव स्मरामि’ इति । सैषा प्रत्ययस्मरणयोरेककर्तृत्वे सति घटनामुपढौकते प्रतिपत्तिः । अन्यथा मत्सदृशो यदद्राक्षीत्तत्सदृशोऽहं तं स्पृशामीति स्मरामीति च स्यात् । सर्वस्य पुरुषस्याहमिति प्रत्ययः स्मृतिप्रत्यययोरेकस्मिन् कर्तरि वर्तमानः प्रत्ययभेदे पश्यामि स्पृशामि स्मरामीत्यादिप्रत्ययभेदे सति तेषां च प्रत्ययानामेकस्मिन् कर्तरि प्रत्ययिन्यभिन्ने चोपस्थितः प्रत्यक्षश्च ॥
नन्वेकप्रत्ययविषय एवान्यः स्मृतेरेकत्वेऽपि कर्तुरहं प्रत्येमि स्मराम्यहमिति च न भवितव्यं, प्रत्येता स्मर्तेति शब्दभेदाद्भेद एव । तत्राह—न—प्रत्यक्षत्वात् । तदेव दर्शयति—स्वानुभवग्राह्यश्चायमभेदात्मा अहमिति प्रत्ययः ॥
न च प्रत्यक्षस्य माहात्म्यं प्रमाणान्तरेणाभिभूयते । प्रमाणान्तरं च प्रत्यक्षबलेनैव व्यवहारं लभते ।
अथ प्रत्येता स्मर्तेति शब्दभेदात् प्रत्ययभेदाच्चाहम्प्रत्ययस्य भिन्नविषयत्वमनुमायिष्यत इति चेदत आह—न हि प्रत्यक्षस्य माहात्म्यं प्रामाण्यं चक्षुषो रूप इवानुमानादभिभूयते बाध्यते ॥
किं च—प्रत्यक्षं प्रमाणमयमहंप्रत्ययो न तत् स्मृतिप्रत्ययानामेकस्मिन् कर्तरि सामान्येन वर्तमानः । स चेत् प्रत्यक्षप्रमाणभूतोऽनुमानेनाभिभूयेत, तदानीमनुमानस्यापि प्रमाणत्वं हीयेत । तन्मूलत्वादनुमानस्य । तदेतदाह— प्रमाणान्तरं च प्रत्यक्षबलेनैव प्रामाण्यव्यवहारं लभत इति । तेन प्रत्यक्षविरोधेन अनुमानविरोधेन च प्रतिवादि(पादित)प्रमाणप्रतिज्ञादोषो व्याख्यतः ॥
अतीतानागतप्रत्ययसंस्काराधारादनन्यः इदानीन्तनप्रत्ययसंस्काराधारः, एकसन्तानसंबन्धित्वे सति बोधात्मकत्वात्, आत्मस्वरूपाद्यथा ॥
भूतभविष्यत्प्रत्ययसंस्काराश्रयः वर्तमानप्रत्ययसंस्काराश्रयादनन्यः, एकसन्तानसंबन्धे सति बोधात्मकत्वात्, आत्मन इव स्वरूपात् ॥
वर्तमानाहंप्रत्ययी भूतभविष्यत्प्रत्ययिभ्यामभिन्नः, एकसन्तानयोगे सति प्रत्ययित्वात्, यथा स्वरूपात् ॥
भूतभविष्यत्प्रत्ययिभ्यामनन्यो वर्तमानः प्रत्ययः, एकसन्तानसंबन्धे सति बोधात्मकत्वात्, आत्मरागस्वरूपादिभ्य इव ॥
भूतभविष्यत्प्रत्ययेभ्यो नान्यो वर्तमानः प्रत्ययी, एकसन्तानसंबन्धित्वे सति बोधात्मकत्वात्, आत्मनो यथा स्वरूपात् ॥
भिन्नसन्ततिषु परस्परस्मृतिप्रतिसन्धानाद्यनुपलम्भादेकसन्तानेषु च स्मृत्यादिदर्शनादेव सिद्धमेककर्तृत्वम् । तथा सर्वप्रमाणेभ्यो गरीयसा प्रत्यक्षेण प्रमाणेन । तत्र न किंचिदनुमानेन साध्यम् । न हि कश्चित् करतललाञ्छनदिदृक्षया दर्पणमादत्ते । तथाऽपि वैनाशिकोपरचितानुमानापशदमसहमानाः केचित् प्रत्यनु-
तस्मादेकमनेकार्थमवस्थितं च चित्तम् । यस्य चित्तस्यावस्थितस्येदं शास्त्रेण परिकर्म निर्दिश्यते ॥ ३२ ॥ तत्कथम्—