मूर्धज्योतिषि सिद्धदर्शनम् ॥ ३२ ॥
व्यासभाष्यम्
शिरःकपालेऽन्तश्छिद्रं प्रभास्वरं ज्योतिः, तत्र संयमं कृत्वा सिद्धानां द्यावापृथिव्योरन्तरालचारिणां दर्शनम् ॥ ३२ ॥