कैवल्यपादः · ४.१५

 वस्तुसाम्ये चित्तभेदात्तयोर्विविक्तः पन्थाः ॥ १५ ॥

विवरणम्

ते स्वयं तथेति अभ्युपगम्य स्वमाहात्म्येन प्रत्युपस्थितं वस्तु कथम- प्रमाणात्मकेन विकल्पज्ञानबलेन वस्तु स्वयमुपगृह्य अभ्युपगम्य तदेव अभ्युपगतं अपलपन्तः इदमित्यभ्युपेत्य इदं नास्तीत्यपह्नुवानाः श्रद्धेयवचनाः स्युः । न हि स्वानुभवप्रत्याख्यायिनः श्रद्धानीयवचनविस्तारा भवितुमर्हन्ति ॥

 तत्र विज्ञानव्यतिरेकेणार्थो नास्तीति प्रत्यक्षविरोधिनी प्रतिज्ञा । संवेदनीकारकं विज्ञानं प्रतीयामः । पृथुबुध्नाद्याकारमर्थं प्रतिषेधामहि । ग्राहकं च विज्ञानमवभासकं, अवभासनीयश्चार्थः । स्वलक्षणभेदेनार्थज्ञानयोरुपलभ्यमानत्वान्नाव्यतिरेकगन्धोऽपि । ततश्च व्यतिरेकेणानुपलभ्यमानत्वादित्यसिद्धो हेतुस्तव ॥

 न च ज्ञानस्यैव पृथुबुध्नाद्याकारता । ज्ञानस्यैकस्यावभास्यावभासकत्वानुपपत्तेः प्रदीपस्येव केवलस्य । भिन्नयोः प्रदीपयोः प्रकाश्यप्रकाशकत्वानुपलम्भादेकस्य च स्वात्मनि प्राप्त्यसम्भवात्, एवं ज्ञानस्य ॥

 अपि चानैकान्तिकश्च बुद्धेन प्रतिपक्षवादिना च । न चासौ नास्तीति शक्यं प्रतिज्ञातुं, यं प्रति सिसाधयिषसि, स चेद्विज्ञानव्यतिरिक्तः, तथा घटादिरपि सिध्यति ॥

 स्वप्नज्ञानमपि उपलब्धार्थविषयत्वात् न निरालम्बनम् । प्रतिज्ञायाः प्रत्यक्षविरोधो लोकविरोधश्च । सर्वं ज्ञानं सालम्बनं, ज्ञानत्वात्, प्रतिवादिदुष्टवाक्यज्ञानवत्, स्ववाक्यगुणज्ञानवच्च । ततश्च ज्ञानत्वादीनां निरालम्बनत्वहेतूनामेवमादिभिरनैकान्तिकता ॥ १४ ॥

 कुतश्चैतदन्याय्यं गृह्यमाणं वस्तु नास्तीति ? वस्तुसाम्ये चित्तभेदात्तयोर्विविक्तः पन्थाः । बहुचित्तालम्बनीभूतं अनेकचित्तविषयीभूतं एकं वस्तु

व्यासभाष्यम्

 बहुचित्तालम्बनीभूतमेकं वस्तु साधारणं, तत्खलु नैकचित्तपरिकल्पितं, नाप्यनेकचित्तपरिकल्पितं, किं तु स्वरूपप्रतिष्ठम् । कथम् ? वस्तुसाम्ये चित्तभेदात् ।  धर्मापेक्षं चित्तस्य वस्तुसाम्येऽपि सुखज्ञानं भवति । अधर्मापेक्षं तत एव दुःखज्ञानम् । अविद्यापेक्षं तत एव मूढज्ञानम् । सम्यग्दर्शनापेक्षं तत एव माध्यस्थ्यज्ञानमिति । कस्य तच्चित्तेन परिकल्पितम् । न चान्यचित्तपरिकल्पितेनार्थेनान्यस्य चित्तोपरागो युक्तः । तस्माद्वस्तुज्ञानयोर्ग्राह्यग्रहणभेदभिन्नयोर्विभक्तः पन्थाः । नानयोः संकरगन्धोऽप्यस्तीति ॥

विवरणम्

पुत्रादिकं साधारणं समानम् । तत् खलु नैकचित्ततन्त्रं भवति । एकचित्ततन्त्रत्वाभावादनेकचित्तपरिकल्पितमपि न भवति ।

 किन्तु स्वरूपप्रतिष्ठं चित्तनिरपेक्षं स्वतन्त्रतया व्यवस्थितम् । कथम् ? वस्तुसाम्ये वस्तुनः पुत्रादेरेकत्वे चित्तभेदात् एकस्मिन् पुत्रादिविषये विषयिणां ज्ञानानामनेकत्वात् ।  कथं चित्तभेद इत्याह—धर्मापेक्षं चित्तस्य वस्तुसाम्येऽपि यथा पुत्रत एव मातापित्रोः सुखज्ञानं भवति । तत एव पुत्रादेः अधर्मापेक्षं अहितानां दुःखज्ञानं उपजनिष्यते ॥

 तस्मादेवाविद्यापेक्षं कामुकानां मूढज्ञानम् । तत एव पुत्रादेः सम्यग्ज्ञानापेक्षं योगिनां माध्यस्थ्यज्ञानं हेयोपादेयशून्यमुत्पद्यते । कौलेयादीनां तत एव लोभापेक्षया भक्ष्यज्ञानम् । तत एव पुत्रादेर्विरक्तस्य कुणपादिज्ञानम् ॥

 यदि कस्यचिच्चित्तेन परिकल्पितमभविष्यत् (न) अन्यचित्तपरिकल्पितेनान्येषां चित्तमुपारंक्ष्यत । नैतद्युक्तं, अत्यन्तासम्बद्धानामदर्शनात् । यदि चान्यपरिकल्पितेनाप्यन्यचित्तोपरागोऽभविष्यत्, तदा सर्वेऽपि सर्वं समज्ञास्यन्त । न चेदं दृष्टम् । तस्मात् न चित्तपरिकल्पितं वस्त्विति, वस्तुज्ञानयोः ग्राह्यग्रहणभेदाद्भिन्नयोर्विविक्तः पन्थाः । नानयोः सङ्करगन्धोऽप्यस्ति ॥

 
व्यासभाष्यम्

 साङ्ख्यपक्षे पुनर्वस्तु त्रिगुणं चलं च गुणवृत्तमिति धर्मादिनिमित्तापेक्षं चित्तैरभिसंबध्यते । निमित्तानुरूपस्य च प्रत्ययस्योत्पद्यमानस्य तेन तेनाऽत्मना हेतुर्भवति । केचिदाहुः—ज्ञानसहभूरेवार्थो भोग्यत्वात् सुखादिवदिति । त एतया द्वारा साधारणत्वं बाधमानाः पूर्वोत्तरक्षणेषु वस्तुरूपमेवापह्नुवते ॥ १५ ॥

विवरणम्

 सुखज्ञानालम्बनीभूतं पुत्रादिवस्तु न तज्ज्ञानपरिकल्पितम्, तद्विरुद्धानेकचित्तोपरञ्जकत्वात्, वादिप्रतिवादिप्रतिज्ञागुणदोषतदाभासवत् । वादिप्रतिवादिप्रभृतीनामपि विज्ञानमात्रत्वे साध्यसाधनादिव्यवहारविलोपः स्यात् ॥  अथ स्वविज्ञानव्यतिरेकेण तेषां ज्ञानरूपाणामेव पृथक्त्वमिति चेत्—अस्तु । तदेव वस्तु ज्ञानान्तरविषयत्वादर्थान्तरं सिद्धम् । संज्ञामात्रे विप्रतिपत्तिः । विषयिविषयभेदस्तु न साध्यः । तस्मान्नानयोः संकरगन्धोऽपीति ॥  अथ वस्तुनि स्वरूपप्रतिष्ठेऽपि सुखादिभिन्नप्रत्ययालम्बनता न समीचीनरूपेति चेत्—अत्रोच्यते—वस्तु पुनस्त्रिगुणं चलं गुणवृत्तमिति धर्मादिनिमित्तं चापेक्ष्य चित्तैः सुखदुःखादिभेदरूपेण अभिसंबध्यते परिणामित्वादनेकशक्तित्वाच्च ॥  धर्मादिनिमित्तानुरूपस्य चोत्पद्यमानस्य प्रत्ययस्य तेन तेन निमित्तेन आत्मना हेतुर्भवति । सत्त्वात्मना धर्मादिनिमित्तापेक्षं पुत्रादिवस्तु सुखहेतुर्भवति । रजआत्मना त्वधर्मनिमित्तापेक्षं दुःखहेतुर्भवति । तमआत्मना त्वविद्यापेक्षं तदेव वस्तु मोहहेतुर्भवति । सत्तामात्रात्मना सम्यग्दर्शनापेक्षं तदेव माध्यस्थ्यज्ञानहेतुर्भवति ॥

 केचिदाहुः एष एव बौद्धानामन्यतमे बाह्यमर्थमभ्युपगच्छन्त आहुः— ज्ञानसहभूरेवार्थः, यथा विज्ञानं प्रतिक्षणं धर्मिशून्यं उत्पद्यते विनश्यति च, तथा सहैव ज्ञानेनार्थो विज्ञायते विनश्यति च, भोग्यत्वात्, सुखादिवत् । तद्यथा—सुखदुःखादिरूपं भोग्यं विज्ञानसहोत्पत्तिविनाशमसाधारणम्, एवं घटादिरर्थोऽपि विज्ञानसमानसमयजन्मविनाश एव, भोग्यत्वादिति ॥

 तेऽपि तथैव विज्ञानवादिवत् साधारणत्वं अनेकसुखादिचित्तालम्बनत्वं बाधमानाः पूर्वोत्तरक्षणेषु स्वकीयविज्ञानोत्पत्तेः पौरस्येषु क्षणेषु पाश्चात्येषु च वस्तु नास्तीति वस्तुस्वरूपमेवापह्नुवते ॥

पठन विकल्प

पठन अपनी सुविधा से चुनें

भाषा
पठन

दिखावट

18 px
पृष्ठ का रंग
Hide menus for a clear reading page.

विषयानुक्रमणिका

१समाधिपादः
Read the whole pada →
२साधनपादः
Read the whole pada →
३विभूतिपादः
Read the whole pada →
४कैवल्यपादः
Read the whole pada →

Pada 4 · Sutras

Read the whole pada →