समाधिपादः · १.१

श्रीः

श्रीपतञ्जलये नमः श्रीवेदव्यासाय नमः

श्रीमच्छङ्करभगवत्पादेभ्यो नमः

॥ पातञ्जलयोगसूत्रभाष्यविवरणम् ॥

॥ श्रीमच्छङ्करभगवत्पादप्रणीतम् ॥

॥ समाधिपादः प्रथमः ॥

अथ योगानुशासनम् ॥ १ ॥

व्यासभाष्यम्

 अथेत्ययमधिकारार्थः । योगानुशासनं शास्त्रमधिकृतं वेदितव्यम् ॥

विवरणम्

यस्मिन्न स्तः कर्मविपाकौ यत आस्तां
क्लेशा यस्मै नालमलङ्घ्या निखिलानाम् ।
नावच्छिन्नः कालदृशा यः कलयन्त्या
लोकेशस्तं कैटभशत्रुं प्रणमामि ॥ १


यः सर्ववित् सर्वविभूतिशक्तिः
विहीनदोषोपहितक्रियाफलः ।
विश्वोद्भवान्तस्थितिहेतुरीशो
नमोऽस्तु तस्मै गुरवे गुरोरपि ॥ २

 अथेत्यादिपातञ्जलयोगशास्त्र[सूत्रभाष्य]विवरणमारभ्यते । तत्रानाख्यातसम्बन्धप्रयोजनं न पुरुषप्रवृत्तिनिवृत्तिभ्यां पर्याप्नोतीति, सूत्रकाराभिप्रेते पुरुषप्रवृत्तिनिमित्तभूते सम्बन्धप्रयोजने पूर्वं प्रकटीक्रियेते ॥

तत्र प्रयोजनं तावत्—चिकित्साशास्त्रे तच्चतुर्व्यूहत्वप्रदर्शनद्वारेण व्याख्यातम् । तद्यथा—चिकित्साशास्त्रं चतुर्व्यूहं, रोगः, रोगहेतुः, आरोग्यं, भैषज्यम् इति । विधिप्रतिषेधनियमद्वारेण [च तत्] चतुर्व्यूहविषयव्याख्यानपरम् । एवमिहापि “परिणामतापसंस्कारदुःखैर्गुणवृत्तिविरोधाच्च दुःखमेव सर्वं विवेकिनः” इत्यारभ्य चतुर्व्यूहत्वं शास्त्रस्य प्रदर्शितम् । तद्यथा—दुःखप्रचुरः संसारो हेयः । तस्याविद्यानिमित्तो द्रष्टृदृश्यसंयोगो हेतुः । विवेकख्यातिरविप्लवा हानोपायः । विवेकख्यातौ च सत्यामविद्यानिवृत्तिः, तन्निवृत्तावात्यन्तिको द्रष्टृदृश्यसंयोगोपरमो हानम्, तदेव कैवल्यमिति । आरोग्यस्थानीयकैवल्यप्रयुक्तत्वादस्य तदेव कैवल्यं प्रयोजनम् ॥

ननु च हेयतद्धेतू न प्रस्तोतव्ये, निष्प्रयोजनत्वात् । हानप्रयुक्तं हि शास्त्रं, तदुपायभूता विवेकख्यातिरेव वक्तव्या । न हि कण्टकविद्धचरणतलस्य तदपनयनं मुक्त्वा दुःखतद्धेतू चोद्येते । नैतदेवं—हेयतत्कारणापेक्षत्वाद्धानोपायस्य । यावदिदमनेनोपायेन हातव्यं संसारचक्रम् अस्य चाविद्यानिमित्तो द्रष्टृदृश्यसंयोगो हेतुः इति नाख्यायते, तावन्नाविद्याप्रतिपक्षभूता विवेकख्यातिराख्यातुं शक्यते । हेयतद्धेतुमतो हानोपायार्थिनो रोगिणो भैषज्यार्थित्वदर्शनात् । न हि रोगं रोगहेतुं चानपेक्ष्य चिकित्साशास्त्रमुपदिश्यते ॥

सम्बन्धोऽपि—विवेकख्यातेर्हानमेव फलं साध्यं हानस्यापि विवेकख्यातिरेव साधनमिति साध्यसाधनयोरितरेतरनियम एव, नान्यसंबन्धः । तद्यथा—भैषज्यस्यारोग्यमेव फलम् आरोग्यस्यापि भैषज्यमेव साधनमिति इतरेतरनियमः, स च शास्त्रादिति । तस्मात् ससंबन्धप्रयोजनं योगानुशासनम् ।

ननु च यदि हानं प्रयोजनं तदुपायश्च विवेकख्यातिरिति, तत्र वक्तव्यम् ‘अथ विवेकख्यात्यनुशासनम्’ इति । किमर्थम् ‘अथ योगानुशासनम्’ इति सूत्रितम् ?

तदुपायत्वाद्योगस्य । उपाय एव वक्तव्यः स्यात् । उपेयोपप्रदर्शने हि उपेयमुपायं प्रति साकाङ्क्षमेवेत्युपायः साङ्गकलापः पुनरपि वक्तव्यः स्यात् । तस्मिंश्चाभिहिते सर्वमभिहितमिति ।

कथं तदुपायत्वम् ? यत आह सूत्रकारः—‘योगाङ्गानुष्ठानादशुद्धिक्षये ज्ञानदीप्तिराविवेकख्यातेः’ इति । ‘निर्विचारवैशारद्येऽध्यात्मप्रसादः’ ‘ऋतंभरा तत्र प्रज्ञा’ इति च । तथा भाष्यकारोऽप्याह—‘यस्त्वेकाग्रे चेतसि स भूतमर्थं प्रद्योतयति’ इति । भूतार्थावगतिश्च विवेकख्यातिः । तस्माद्युक्तं तदुपाययोगानुशासनमेवादौ सूत्रितमिति ॥

ननु च योगाङ्गानुष्ठानाद्विवेकख्यातिः, तत्र वक्तव्यं ‘अथ योगाङ्गानुशासनम्’ इति—न—फलेनोपक्रमात् । योगाङ्गानुष्ठानस्य हि फलं योग इति तदुपक्रमो युक्तः ॥

यद्येवं हानेनोपक्रम्येत—न—तस्योपेयत्वात्—उपेयमेव हि तत् । योगः पुनः स्वाङ्गानामुपेयश्च, उपायश्च विवेकख्यातेरणिमादिप्राप्तेश्चेत्यभ्यर्हिततरः । फलतदुपायरूपत्वात् (फलप्राप्तिनिमित्तत्वात्) ॥

उत्तरसूत्रार्थत्वाच्च । न हि ‘अथ योगाङ्गानुशासनम्’ इत्युक्ते ‘योगश्चित्तवृत्तिनिरोधः’ इति युक्तं वक्तुम् । तदा हि ‘यमनियमा’दिसूत्रमेव पठितव्यं स्यात् ॥

अथ तदेव पठितव्यमिति चेत्—न—योगोपे(पा)यया हानोपायभूताया विवेकख्यातेः, फलस्य च हानस्य, संबन्ध[प्र]दर्शनार्थत्वात् ‘योगश्चित्तवृत्तिनिरोधः’ इत्यस्य ॥

(स)कथं पुनरेतत्संबन्धप्रदर्शनार्थम् ? यावता निर्बीजसमाधिलक्षणाभिधानमेतत् । सत्यमेवं, तथापि हानतदुपायसंबन्धमवद्योतयदेव सूत्रं निर्बीजसमाधिलक्षणतामापद्यते ॥

न हि निरोधलक्षणात् समाधेरर्थान्तरं हानम् । किं त्वेतावता विशेषः, निरोधलक्षणसमाधौ (धेर्न) पुनः प्रवृत्तिः, हाने त्वात्यन्तिकी निवृत्तिरिति । समाध्यवस्थायां तु हानाविशेष एव । तथा चाह—“तदा द्रष्टुः स्वरूपेऽवस्थानम्” [इति] । “स्वरूपप्रतिष्ठा च चितिशक्तिः कैवल्यम्” इति स्वरूपप्रतिष्ठत्वं(ष्ठं) हि कैवल्यमाह । ततश्च निर्बीजसमाधिना कैवल्यमेव शास्त्रार्थप्रत्ययद्रढिम्ने साक्षात्क्रियते ॥


 तस्माद्यदुच्यते कैश्चित् [स]बीजसमाधिः कैवल्यसाधनमिति—तन्न ! किं तर्हि? ख्यातिरेव साधनमविद्यानिवृतिद्वारेण । अविद्यानिमित्तो हि बन्धः । तस्माद्यद्यपि योगानुशासनं सूत्रितम् , तथापि ख्यात्यर्थत्वाद्योगस्य तद्द्वारेण ख्यातिहानसंबन्धमपि दर्शयतीति, सुष्टूच्यते उत्तरसूत्रसंबन्धार्थं च योगानुशासनमिति सूत्रयितव्यमिति ॥

 यद्यपि फलार्थिनां तत्फलसाधनं प्रत्युत्पन्नाकाङ्क्षाणां साधनोपदेशोऽप्यास्ति । तथापि न तत्प्रयोजनम्, सर्वस्य फलोद्देशेन प्रवृत्तेस्तदेव प्रयोजनमिति ॥ योगानुशासनमिति । यथा - शिष्योऽनुशिष्यते विशिष्टप्रवृत्तिनि

 वृत्तिनियमद्वारेण, तथा विशिष्टसाध्यसाधनतदङ्गनियममात्रसादृश्यादन्तेवास्यनु शासनवद्योगानुशासनमित्युच्यते । अनुशिष्टिरनुशासनं, योगोऽनुशिष्यतेऽनेनास्मिन्निति वा योगानुशासनं शास्त्रम् ॥

 अथेत्ययमधिकारार्थः।अधिकार आरम्भः प्रस्तावः, अर्थोऽभिधेयोऽस्य ; शिष्टस्मृतिप्रामाण्यात् । ननु चानन्तर्यार्थस्याथशब्दस्य स्मरन्ति शिष्टाः । तथा चाह—“वृत्तादनन्तरस्य प्रक्रियार्थो १दृष्टः” इति । न—सर्वत्रारम्भार्थत्वात् । आनन्तर्यस्य च गम्यमानत्वात् । यथा पुत्र इत्युक्ते पिता गम्यते, न च पुत्रशब्दस्यार्थः पिता, तथेहाप्यारम्भ एवाभिधीयते, आनन्तर्यं तु प्रतीयते ॥

 अत एव च *वृत्तादनन्तरस्य प्रक्रियार्थो दृष्टः* इत्युच्यते । यदि चानन्तर्यार्थोऽभविष्यत्तदा *वृत्तादानन्तर्येऽर्थे प्रक्रियायाः? इत्यवदिष्यत् । अनन्तरस्येति चानन्तरभाविन एवाभिधानम् । अपि चैवं हि स्मृतिः-**किञ्चिदव्ययं२ विभक्त्यर्थप्रधानं किञ्चित्क्रियाप्रधानम् । उचैर्नीचैरित्यादि विभक्त्यर्थप्रधानम् , हिरुक् पृथगित्यादि क्रियाप्रधानम्' (इति] । न चैतद्वयतिरेकेणाव्ययानामर्थो विद्यते । तत्राथशब्दस्यानन्तर्यार्थत्वे सति विभक्त्य(क्ति)श्रवणमयुक्तम्, सत्त्वप्रधानत्वात् । आरम्भक्रियार्थत्वे तु न विभक्त्य(र्थ)श्रवणमयुक्तम्, असत्त्वप्रधानत्वादिति ।

 तस्मादथशब्दः प्रस्तावार्थ एवेति युक्तमथेत्यधिकारार्थ इति । स्वरूपावद्योतनार्थ इतिशब्दः । यथा गौरित्याहेति । प्रसिद्धोऽप्यथशब्दार्थोऽधिक्रियमाण- विषये शिष्यबुद्धिसमाधानार्थं कीर्त्यते । सिद्धो ह्ययं न्यायः श्रुतौ ३“व्याख्यास्यामि ते व्याचक्षाणस्य तु मे निदिध्यासस्व” इति ॥


व्यासभाष्यम्

 योगः समाधिः । स च सार्वभौमश्चित्तस्य धर्मः । क्षिप्तं, मूढं, विक्षिप्तं, एकाग्रं, निरुद्धम् इति चित्तभूमयः ॥

विवरणम्

 कः पुनर्योगो यस्यानुशासनं प्रस्तुतमिति-आह--योगः समाधिरिति ॥ समाधिग्रहणात् 'युजिर्योगे' इति निवर्त्य, 'युज समाधौ' इत्ययं गृहीतः । योगः समाधानम् । ननु च ‘योगः समाधिः’ इत्येवमन्तेन व्याख्याते सूत्रे ‘स च सार्वभौमः’ इत्यादिभाष्यमसंबन्धं दृश्यते । नैष दोषः । इह समाधिरित्युक्ते, समाधीयमानापेक्षत्वात्, समाधीयमानानां च बहुत्वात् , किमात्मा समाधीयते ? किं वा शरीरम्, आहोस्विदिन्द्रियाणि, इति बहु(विदां)धा विप्रतिपत्तेः, स्वविशेषणाकाङ्क्षत्वाच्च समाधेः, कस्यायम्? किंविशेषणकः? इत्यनुषक्ते प्रश्ने, इदमाह-स च सार्वभौमश्चित्तस्य धर्म इति । चित्तस्य धर्मो नात्मादीनाम् । तच्च चित्तं स्वयमेव समाधीयते [समाधात्र]न्तरनिरपेक्षत्वात् ॥

 काः पुनर्भूमय इत्यत आह-क्षिप्तं मूढमित्यादयो भूमय इति । क्षिप्तमिति कर्मकर्तरि निष्ठा । यथा भिन्नः कुसूलः स्वयमेवेति । क्षिप्तमनिष्टविषयासञ्जनेन स्तिमितम् । मूढं निर्विवेकम् । विक्षिप्तं नानाक्षिप्तम् । कर्मकर्तर्येव । विवेकाक्षमं च विक्षिप्तत्वादेव । एकाग्रं तुल्यप्रत्ययप्रवाहम् । निरुद्धमिति प्रत्ययशून्यं चित्तम् ॥

 ननु च भूमिषु धर्मेषु विवक्षितेषु, किमर्थं क्षिप्तमित्यादिना धर्म्युच्यते ? नैष दोषः, धर्मिणा धर्म एवोपदिश्यते । धर्माणां धर्मिविषयत्वात् । यथा गोत्वे किं लिङ्गमिति पृष्टे, विषाणी ककुद्मान् प्रान्तवालधिरिति धर्मिणा धर्म एवोपदिश्यते । तस्मात् क्षेपादयश्चित्तस्य भूमयो धर्मा इत्यर्थः ॥

 ननु च भूमीनां चित्तधर्मत्वे समाधेश्च, कथं भूमिभिः समाधिराधारत्वेन विशेष्यते सार्वभौम इति ? सामान्यभूतत्वात् समाधेः । भूमीनां च विशेषत्वात् । यथा क्षिप्तं तिष्ठति, मूढं तिष्ठति, विक्षिप्तमेकाग्रं चेति, क्षिप्तादिभूमिषु स्थितिरनुवर्तते सामान्यम् । स्थितिश्च समाधिः । तस्मात् सामान्यरूपं सर्वासु भूमिषु प्राधान्येन वर्तत इति । ‘सर्वभूमिपृथिवी' इत्यैश्वर्यार्थीयोऽण्प्रत्ययः । अनुशतिकादित्वादुभयपदवृद्धिः ॥

 अन्ये पुनर्बाह्याध्यात्मिकान् संयमविषयान् भूमय इत्याचक्षते । तेषां विक्षिप्ते चेतसि इति सामानाधिकरण्यानुपपत्तिः । स्ववचनविरोधश्च कथम् ?

 क्षिप्यतेऽस्मिन्निति क्षिप्तम् , मुह्यतेऽस्मिन्निति मूढं, यदा चैवं न तदा संयमविषयता । तत्र क्षेपाद्यसंभवात् । एकाग्रावस्थायां हि संयमो भवति ।

 किं चान्यत्-क्षिपेश्च ध्रौव्याद्यर्थाभावादधिकरणे निष्ठाप्रत्ययाभावः। किं च-निरुद्धे चेतसि संयमस्यापि तत्राभावात् वृत्तिशून्यत्वात् संयमविषयाभावः । न हि निरोधे विषयविशेषे चित्तं निरुध्यते । तदा हि विषयित्वान्निवर्तते । परिगणनानुपपत्तिश्च । न हि क्षिप्तादयः पञ्चैव संयमस्य विषयाः । तेषामानन्त्यात् ॥

 ननु चान्यथा योगं केचिदिच्छन्ति । तथा चाहुः--**इन्द्रियमनोऽर्थसन्निकर्षात् सुखदुःखे, तदनारम्भ आत्मस्थे मनसि, [स]शरीरस्य सुखदुःखाभावः प्राणमनोविनिग्रहापेक्षः संयोगो [योग] इति” । तदिति प्रकृतापेक्षम् । योऽसौ सुखदुःखयोरात्मेन्द्रियमनोऽर्थसन्निकर्षो हेतुः, तस्यानारम्भः तदनुत्पत्तिः । स कथं भवति ? आत्मस्थे मनसि, नेन्द्रियस्थे । सशरीरस्य अविशीर्णशरीरस्य । तदा कारणाभावात् कार्याभाव इति, सन्निकर्षाभावे सुखदुःखयोरप्यभावः, तस्यामवस्थायां योऽसौ विभोरात्मनो मनसा संयोगः स प्राणमनोविनिग्रहापेक्षः संयोगविशेषो योग इति ।

 अत्रोच्यते-आत्मस्थे मनसीत्ययुक्तम्, सर्वदा आत्मस्थत्वान्मनसः । इन्द्रियादिसन्निकर्षानारम्भापेक्षया आत्मस्थे इति चेत्, तदनारम्भ इत्येव सिद्धत्वादात्मस्थे मनसीत्यनर्थकं स्यात् ॥

 किं चान्यत्-मुक्तस्यापि मनस आत्मस्थत्वादिन्द्रियसन्निकर्षाभावाञ्च योगः प्राप्नोति । तस्यापि हि सर्वगतत्वात् मनसश्च नित्यत्वात् सर्वदात्मस्थत्वमेव ॥ किं च-आत्मनः प्रदेशाभावादात्मस्थ इत्ययुक्तम् । न चाप्युपचरितात्मप्रदेशसंयोगः परमार्थस्य योगस्य हेतुः स्यात् । उपचरितस्य मिथ्यात्वात् ॥

 किं चान्यत्-मनोऽर्थसन्निकर्षाभाव इत्येव सिद्धेः(द्धं)इन्द्रियग्रहणमनर्थकं स्यात् । अथेन्द्रियैर्विना मनोऽर्थसन्निकर्षाभावात्तदनारम्भ इति प्राप्त्यभावे प्रतिषेधो न युक्त इति चेत् । नैतदेवम्, विनेन्द्रियैर्मनोऽर्थसन्निकर्षो नास्तीत्यर्थात्सन्निकर्षप्रतिषेधं कुर्वता विषयप्राप्तिरिन्द्रियद्वारा प्रतिपादिता स्यात् ॥

 किं चान्यत्-सर्वप्राणभाजामिन्द्रियमनोऽर्थसन्निकर्षात् सुखदुःखप्रतिलम्भस्य प्रसिद्धत्वादात्मनः सम्बन्धस्य च नित्यत्वात् सुखदुःखाभावो योग इत्येव सिद्धेः, तत्र [सूत्र] शेषोऽनर्थकः स्यात् ॥

व्यासभाष्यम्

तत्र विक्षिप्ते चेतसि विक्षेपोपसर्जनीभूतः समाधिर्न योगपक्षे वर्तते ॥

विवरणम्

 अथापि स्यादिन्द्रियमनोऽर्थसन्निकर्षग्रहणादृते सुखदुःखाभाव इत्येतावति सति मुक्तस्यापि सुखदुःखाभावाद्योगित्वप्रसङ्ग इति तन्निवृत्त्यर्थं सूत्रशेषग्रहणमिति । तच्च न, मुक्तस्य सुखदुःखप्राप्त्यभावात् , प्राप्तिपूर्वप्रतिषेधस्य न्याय्यत्वात् , यस्य सुखदुःखप्राप्तिः, तद्विषयः सुखदुःखाभाव एव योग इति सूत्रशेषप्रत्याख्यानं युज्यते।

 किं चान्यत्—उपात्तेऽपि सशरीरग्रहणे मुक्ताद्विनिवृत्तिर्न शक्यते कर्तुम् , निष्प्रयोजनत्वात् । सुखदुःखाभावश्चेद्योगः, विद्यमानमपि शरीरं कार्याकरणादनर्थकं स्यात् । कार्यानपेक्षायां हि मुक्तामुक्तयोरविशेष एव ॥

 कि चान्यत्---प्राणमनोविनिग्रहापेक्ष इत्यपि न घटते । विधारकस्य प्रयत्नस्यात्मसमवेतत्वादविद्यमानेऽपि मनसः क्रियावत्त्वे इन्द्रियेणासंयुज्य मनः प्राण- [मनो]निग्रहौ न कर्तुं पर्याप्यते । इन्द्रियसंयोगे च मनसः तदनारम्भ इत्ययुक्तम् । मनसश्च प्राणनिग्रहे व्यापृ(वृ)तत्वादनारम्भानुपपत्तिः ।  न चासति इन्द्रियवायुसन्निकर्षे प्राणनिग्रहः । न चानिगृहीते प्राणे योगः, आत्मस्थविधारकप्रयत्नद्वारा मनोगतक्रियासंबन्धहेतुत्वात् प्राणनिग्रहस्य । अथापि स्याद्योगः समाधिरिति । तच्च न, निष्क्रियत्वादात्मनो नित्यसमाधानमेव । स्थितिश्च समाधिरित्युच्यते । तस्माद्युक्तमभिधीयते—‘स च सार्वभौम श्चित्तस्य धर्मः’ इति ॥

 यद्येवं समाधिश्चेद्योगः , स च सार्वभौमश्चित्तधर्मः, स च सर्वजनानाम- यत्नसिद्धः, क्षिप्ताद्यनुगतत्वात् । तथा च सति, यथैव श्वासप्रश्वासादीनां प्रयत्नादृते सिद्धत्वात्तत्करणम(ल्लक्षणम)नर्थकम् , एवं योगानुशासनमप्यनर्थकं प्राप्तमित्यत आह--[तत्र] विक्षिप्ते (अनविक्षिप्ते) चेतसि विक्षेपोपसर्जनीभूतः समाधिर्न योगपक्षे वर्तत इति । क्षिप्ताद्यनुगतस्य योगपक्षेऽनभिप्रेतत्वात् । न हि क्षेपाद्यनुगतः समाधिर्भूतार्थावद्योतनादिक्षमः, क्षेपादिप्रधानत्वात् । विक्षेपनिषेधेनैव हि प्रधानमल्लनिबर्हणन्यायेन क्षिप्तमूढयोरपि निषेधः कृतः । प्रधानता च विक्षेपसमाधेरधिकारयोग्यत्वात् । विक्षेपस्थं हि चित्तमपक्षपातादिष्टं विषयमुपनेतुं शक्यते । न हि विषयासञ्जनादिना क्षिप्तमिष्टविषयवियोगादिना वा मूढमन्यथोपनेतुं पार्यते |

व्यासभाष्यम्

 यस्त्वेकाग्रे चेतसि स भूत(सद्भूत)मर्थं प्रद्योतयति, क्षिणोति च क्लेशान्, कर्मबन्धनानि श्लथयति, निरोधमा(मभि)मुखी(खं)करोति स संप्रज्ञातः(योग)इत्याख्यायते ॥  स च वितर्कानुगतो विचारानुगत आनन्दानुगतोऽस्मितानुगत इत्युपरिष्टात् (नि)प्रवेदयिष्यामः ॥ १ ॥

विवरणम्

 योगपक्ष इति ॥ समाधित्वे सत्यपि कार्याकरणात् पक्ष इत्युच्यते । यथा गच्छतः प्रतिपदं विद्यमानापि स्थितिः स्थितिकार्याकरणान्न स्थितिरित्युच्यते । विक्षेपोपसर्जनीभूतत्वं विक्षेपस्यैकसमाधिव्यक्त्यभिप्रायेण । सार्वभौम इति तु प्राधान्यं, सामान्येन सर्वभूमिषु वृत्तेः ॥

 यद्युपसर्जनीभावः समाधिपक्षावृत्तौ कारणम् , इहाप्येकाग्रे एकाग्रतोपसर्जनत्वं स्यात् । ततश्च योगपक्षावृत्तिरिति चेदत आह-यस्त्वेकाग्र इति । नैकाग्रतायां भूम्युपसर्जनत्वम् । कुतः ? क्लेशकर्माप्रबलत्वात् । क्लेशकर्माप्रबलत्वे न हि विक्षेपादीनामुदयः ।

 एकाग्रताभूमौ समाधिर्यः स भूतमर्थं यथात्मानं प्रद्योतयति अवगमयति । अयोग्यर्थज्ञानमयथाभूतत्वगन्धितमेवेति भूतग्रहणम् । क्षिणोति, क्षपयति, पञ्चपर्वणोऽविद्यादीन् क्लेशान् । कर्मबन्धनानि, कर्माण्येव बन्धनानि, धर्माधर्मविमिश्रकर्मजातानि जन्मादिनिबन्धनानि, श्लथयति, शिथिलीकरोति, निरोधमामुखीकरोति, अभिमुखीकरोति । स सम्प्रज्ञात इत्याख्यायते आचार्यैः ॥

 स च वितर्कानुगतो विचारानुगत इत्यादिभाष्यम् । सम्प्रज्ञातस्य प्राथम्याल्लक्षणाभिधाने प्राप्ते, अभ्यर्हितत्वादसम्प्रज्ञातस्यैव लक्षणं युक्तमिह वक्तुमिति सम्प्रज्ञातमुपरिष्टात् प्रवेदयिष्याम इत्युच्यते । इतश्चासम्प्रज्ञातस्य लक्षणमिहैव वक्तव्यं, सम्प्रज्ञातनिरपेक्षोऽप्यसम्प्रज्ञातः पर(प्रकृष्ट)वैराग्यविरामप्रत्ययाभ्यासाभ्यां सिध्यतीत्येतत्प्रदर्शनार्थम् । इह सम्प्रज्ञातलक्षणाभिधाने तदुत्तरकाले चासम्प्रज्ञातलक्षणाभिधाने सम्प्रज्ञातापेक्षयैव असम्प्रज्ञातसमाधावधिकार इत्याशङ्का स्यात्, तस्मादुपरिष्टात् प्रवेदयिष्याम इत्याह ॥ १ ॥

व्यासभाष्यम्

  सर्ववृत्तिनिरोधे त्वसंप्रज्ञातः (समाधिः) । तस्य लक्षणाभिधित्सयेदं सूत्रं प्रववृते—

पठन विकल्प

पठन अपनी सुविधा से चुनें

भाषा
पठन

दिखावट

18 px
पृष्ठ का रंग
Hide menus for a clear reading page.

विषयानुक्रमणिका

१समाधिपादः
Read the whole pada →
२साधनपादः
Read the whole pada →
३विभूतिपादः
Read the whole pada →
४कैवल्यपादः
Read the whole pada →

Pada 1 · Sutras

Read the whole pada →