स्मृतिपरिशुद्धौ स्वरूपशून्येवार्थमात्रनिर्भासा निर्वितर्का ॥४३॥
या शब्दसङ्केतश्रुतानुमानज्ञानविकल्पस्मृतिपरिशुद्धौ ग्राह्यस्वरूपो- परक्ता प्रज्ञा स्वमिव प्रज्ञास्वरूपं ग्रहणात्मकं त्यक्त्वा पदार्थमात्रस्वरूपा ग्राह्यस्वरूपापन्नेव भवति । सा तदा निर्वितर्का समापत्तिः । तथा च व्याख्यातम् ।
न च (ननु) श्रुतानुमानज्ञानसहभूतं तद्दर्शनम्, श्रुतानुमानज्ञाना- भ्यामसमानविषयमित्येतत् । विशेषविषयं हि तद्दर्शनं, सामान्यविषये श्रुतानुमान- ज्ञाने । तस्मादसङ्कीर्णं प्रमाणान्तरेण योगिनो निर्वितर्कजं दर्शनमिति (तन्निर्वितर्कायाः तदिति तस्मादिति) समापत्तेरस्याः सूत्रेण लक्षणं द्योत्यते— स्मृतिपरिशुद्धौ स्वरूपशून्येवार्थमात्रनिर्भासानिर्वितर्का ॥
शब्दसङ्केतश्रुतानुमानज्ञानविकल्पस्मृतिपरिशुद्धौ शब्दसङ्केतविकल्पः श्रुतज्ञानविकल्पः अनुमानज्ञानविकल्पश्च, स एव स्मृतिः । स्मरणेन ह्यन्यस्यान्यधर्मोऽध्यारोप्यते । न हि वस्तु स्वरूपेण वस्त्वन्तरेऽध्यारोपयितुं शक्यम् । ननु च कथं श्रुतानुमिते प्रत्यक्षेऽध्यारोप्येते । ननु च प्रसिद्धोऽध्यारोपः, तथा चेदं मया श्रुतमिदं मयाऽनुमितमिदमिति च पश्यति ॥
ननु तदेव तत् दृश्यमानमपि यदनुमितं श्रुतं च—न—सामान्य- विशेषभेदात् । सामान्यं श्रुतमनुमितं च । विशेषस्तु प्रत्यक्षस्य विषयः । तस्मिंश्च तत्सामान्याध्यासः प्रसिद्ध एव ॥
ग्राह्योपरक्ता योगिनः प्रज्ञा स्वं प्रज्ञारूपं ग्रहणात्मकं त्यक्त्वा पदार्थमात्रस्वभावा ग्राह्यस्वरूपापन्नेव भवति । इवशब्देन ग्रहणात्मकतां न जहातीति । न हि स्फटिक उपाध्याश्रयतायां स्वां स्वच्छरूपतां हास्यति । किञ्च—ग्रहणव्यतिरिक्तं च ग्राह्यं वस्त्वन्तरमस्तीति चोक्तं भवति ॥
सा निर्वितर्का समापत्तिः । तथा च व्याख्यातम् । तस्या ह्येकबुद्ध्युपक्रमोऽर्थात्मा । उपक्रम्यते एकया बुद्ध्या यः स एकबुद्ध्युपक्रमः एकबुद्धि- परिच्छेद्य इति । अर्थात्मा बोध्यात्मेत्येतत् ॥
तस्या एकबुद्ध्युपक्रमो ह्यर्थात्मा अणुप्रचयविशेषात्मा गवादिर्घ- टादिर्वा लोकः । स च संस्थानविशेषो भूतसूक्ष्माणां साधारणो धर्मः
गवादिर्घटादिर्वा विषयः न तु बोध एव गवाद्याकारो विषयः । अणुप्रचयविशेषात्मा अणूनां तन्मात्रावयवानां प्रचयविशेष आत्मा यस्य स गवादिर्घटादिर्वा आलम्बनं बुद्धेः स च विषयः संस्थानविशेषः तथा संस्थितानि हि तानि भूतसूक्ष्माणि ॥
एतदुक्तं भवति—भूतसूक्ष्माणां साधारणो धर्म इति आत्मभूतो न व्यतिरिक्तः । यथा सर्पस्य आभोगकुण्डलनादि ॥
येषां पुनरत्यन्तव्यतिरिक्तमन्यदेव कारणात् कार्यं, तेषां कारणतन्त्रत्वं कार्यस्य न प्राप्नोति । अंशुतन्त्रो हि तन्तुः तन्तुतन्त्रश्च पटः । न चात्यन्ता- न्यत्वेऽन्यतन्त्रत्वं दृष्टमन्यस्य । यथा मृत्पिण्डतन्त्रता न पटस्य, तन्तूनां वा ॥
किञ्च—तद्विनाशानुविनाशित्वं च न शक्यं, न हि कपालविनाशमनु विनश्यति पटः ॥
अथोच्येत, सम्बन्धः कारणमिति । पटस्य हि तन्तवस्तन्तूनाञ्चांशव इति सम्बन्धस्तत्र हेतुः कारणं तत्तन्त्रत्वतदनुविनाशयोरिति ॥
अत्रोच्यते—चैत्रक्षेत्रादिसम्बन्धेऽपि प्रसङ्गः स्यात् । चैत्रस्यापि क्षेत्रादि- तन्त्रता तदनुविनाशित्वं च सम्बन्धविशेषात् प्रसज्येत ॥
अथापि स्यात्—समवायलक्षणः सम्बन्धः कारणमिति—न—तस्यापि संबन्धत्वाविशेषादहेतुत्वं, यथान्यसंबन्धः संबन्धिनोरन्यतरतन्त्रत्वाद्यहेतुः । एवं समवायलक्षणस्यापि संबन्धत्वादन्यतरतन्त्रत्वादावहेतुत्वम् ॥
अपि च—न द्रव्यव्यतिरेकेण कर्मसामान्यविशेषसमवायाः सन्ति । द्रव्यतन्त्रत्वाद्युपपत्तेरेव । तत्रापि सम्बन्धस्याप्यहेतुत्वमेव ॥
किञ्चान्यत्—संबन्धस्य च संबन्धिनोरेवान्यतरतन्त्रत्वादिहेतुत्वे समवायस्यापि समवायान्तरं तस्याप्यन्य इत्यनवस्था प्रसज्येत । यथा गुणादीनां समवायलक्षणात् संबन्धात् द्रव्यतन्त्रत्वं, तथा समवायस्यापि द्रव्यव्यतिरिक्तत्वे द्रव्यतन्त्रत्वार्थं समवायान्तरं कल्प्येत, तस्याप्यन्यत्तस्याप्यन्यदित्यनवस्था स्यात् ॥ 14
प्रागुत्पत्तेरभावात् कार्यस्य कारणेन संबन्धानुपपत्तिः, अविशिष्टं
चासत्त्वं शशविषाणस्य घटस्य च । तत्र घटेनैव कारणस्य संबन्धो न
शशविषाणादिभिरिति हेतुर्वदितव्यः ॥
प्राक् असन्नोत्पद्येत शशविषाणवत् । यस्तु तन्तुभ्योऽन्यः स तन्तुभ्यो नोत्पद्यते, तन्तुभ्योऽन्यत्वात् । यथा तन्तुभ्यो घटः ॥
इतर आह—प्राक् सन्नपि नोत्पद्येत, सत्त्वात्, विद्यमानघटवदिति । यो यस्मादनन्यः सोऽपि तस्मान्नोत्पद्यते, विद्यमानत्वात्, स्वरूपवदिति ॥
अपर आह—यदि सन्नोत्पद्यत इति सत उत्पत्त्यभाव उच्येत, सिद्ध साध्यता स्यात् । अथाभिव्यक्त्यभावः, तदा दृष्टान्ताभावः ॥
यदप्युच्यते यो यस्मादनन्य इति, तत्रापि सिद्धसाध्यता दृष्टान्ताभावश्च । स्वरूपादेव ह्यभिव्यज्यते, नासत्यभिव्यङ्ग्यस्वरूपेऽभिव्यक्तिरभिव्यञ्जकसहस्रेणापि शक्यते कर्तुम् ॥
किञ्चान्यत्—सर्वव्यवहारलोपश्च । कथं ? यदा देवदत्तस्य गौरश्वो वा प्रातर्विद्यमानकर्णलाङ्गूलः पुनरटवीं गतः केनचिल्लूनकर्णो लूनलाङ्गूलो वा स्यात्, तदा पूर्वावयवविभागाद्विनष्टः, अन्यस्तु नवः प्रलूनकर्णलाङ्गूलोऽस्वामिकः सञ्जात इति येन केनचिदुपादीयेत, तथा चावयवविभागः सर्वत्र सम्भवतीति स्वस्वामिसम्बन्धादिनियमाभावादशेषव्यवहारलोपः स्यात् ॥
अथ ब्रूयात्—पूर्वोपार्जितावयवैरेवावयवी नवः प्रलूनकर्णलाङ्गूल आरब्ध इति—नैवम्—न हि मातापित्रादिव्यतिरेकेणेदानीन्तनलूनकर्णलाङ्गूलावय- व्यन्तरप्रत्यारम्भिणो दृश्यन्ते ॥
किंच—यस्य च क्षेत्रे लूनकर्णलाङ्गूलो जातस्तस्यैवासौ स्यात्, न पूर्वावयविकस्य, तत्क्षेत्रजाततृणपलाशादिवत् ॥
यथा चान्यक्षेत्रगतानि बीजानि सलिलौघेनान्यक्षेत्रमुपनीतानि चेत्तत्तद्बीजनिष्पन्नसस्यं क्षेत्रवानेव गृह्णाति, न तु पूर्वबीजवान् (तः) । न चास्यासौ
प्रतिबध्नाति विद्वानपि मदीयबीजपरिनिष्पन्नं सस्यमहमुपादीयेति ॥
तथा लूनकर्णलाङ्गूलमपि क्षेत्रवानेव गृह्णीत । न तत्र प्रतिबन्ध(रूप) नीयं मदीयावयवैरारब्धोऽयमवयवीति ॥
आत्मभूतः फलेन व्यक्तेनानुमितः स्वव्यञ्जकाञ्जनः प्रादुर्भवति । धर्मान्तरस्य कपालादेरुदये च तिरोभवति । स एष धर्मोऽवयवीत्युच्यते । योऽसावेकश्च महांश्चाणीयांश्च स्पर्शवांश्च क्रियाधर्मकश्चानित्यश्च तेनावयविना व्यवहाराः क्रियन्ते ।
येषामप्येकस्मिन्गृहीते तस्मिन्नश्वे लूनकर्णलाङ्गूलके जाते स्वक्षेत्रे च दृष्टे स एवाश्वदाता अन्योऽयं (वितिसन्योयं) महत्तमादश्वान्मया दत्तो महत्तम इति हरेत । हृरतामिति चेत्सर्वव्यवहारलोपप्रसङ्गः शास्त्रकोपश्च । तस्माद्[नन्योऽ]वयवेभ्यः कारणेभ्य एकोऽवयवी कार्यमिति सिद्धम् ॥
यदप्युच्यते—शब्दप्रत्ययधर्मादिभेदादन्य इति, तदप्ययुक्तम् । दृश्यते हि शब्दादिभेदेऽप्यनन्यत्वम् । यथा हस्तः करः पाणिरिति शब्दभेद एकस्य, पितृत्वं पुत्रत्वं च, प्रत्ययभेद एकस्यैव बद्धः पुनर्मुक्तः स्थितो गतश्चेति कालभेदात् । दाहकत्वं पाचकत्वमित्यादयो धर्मभेदा इति । दिग्देशादिभेदास्त्वसिद्धा एव । तस्मादाह—आत्मभूता इति ॥
स च स्वफलेन व्यक्तेनानुमितः । फलेन उदकाहरणधारणसम्भवनादिना । यस्य हि फलं कार्यं व्यक्तमुपलभ्यते सोऽस्तीति निश्चयः । अनुमित इति विप्रतिपन्नापेक्षया, साधारणशब्देन शक्तिरूपेण वोच्यते । स तु प्रत्यक्ष एव अव्यक्तेन दण्डसूत्रकुलालादिकारकव्यापाराभिव्यक्तेन फलेन कार्येण घटाख्येन प्रागपि मृदाद्यवस्थायामस्तित्वेन अनुमितः स एव दण्डादिकारकैः स्वव्यञ्जकैरभिव्यज्यमानः प्रादुर्भवति धर्मान्तरोदये च तिरोभवति स एष भूतसूक्ष्माणां धर्मोऽवयवीत्युच्यते ॥
एतदुक्तं भवति—अणूनामप्रत्यक्षत्वान्नाविर्भावतिरोभावौ युक्तौ । (तत)स्तश्च तौ । तस्माद्य आविर्भवति, धर्मान्तरोदये विरोधात्तिरोभवति च, आविर्भावे च यो व्यञ्जकाद्यपेक्षते सोऽवयवीत्युच्यते । यश्चैवंधर्मः सोऽणुभ्योऽन्य इति ॥
किञ्च—अमी अप्यन्ये हेतवोऽवयविसद्भावे—योऽसावेकश्च महां श्चाणीयांश्च क्रियाधर्मकश्चानित्यश्च । प्रत्येकमेते हेतवः ॥
यस्य पुनरवस्तुकः स प्रचयविशेषः, सूक्ष्मञ्च कारणमनुपलभ्यं अविकल्पस्य तस्य अवयव्यभावात् अतद्रूपप्रतिष्ठं मिथ्याज्ञानमिति प्रायेण सर्वमेव प्राप्तं मिथ्याज्ञानमिति ।
अपि च—एको घट इति घटशब्दवाच्यस्यैकत्वेन सामानाधिकरण्यात् । अस्ति चेदं सामानाधिकरण्यं योऽसावेक इति । न हि बहूनामणूनामेकत्वेन सामानाधिकरण्यमुपकल्पते ॥
तथा महत्त्वेन । न चाणूनां अमहत्तां महत्त्वेन सामानाधिकरण्यं युज्यते । तथाऽणीयस्त्वेन । न ह्यणूनामण्वन्तरापेक्षया अणीयस्त्वं घटते । सर्व एव हि तेऽणीयांसः । नापि चाणूनामणुत्वं गृह्यतेऽणुभ्यः । अणुत्वे वस्त्वन्तरस्याणीयस्त्वमुपपत्स्यते ॥
किञ्च—क्रियाधर्मकश्च । क्रिया धर्मो यस्य स क्रियाधर्मकः । फलवद्व्यापारनिर्वृत्तिकरत्वादित्युक्तं भवति । न ह्यणूनां फलवद्व्यापारनिर्वृत्तिकरत्वं युक्तम् । अशक्यप्रयोज्यत्वादस्मदादिभिः । किञ्च—अनित्यत्वात् । न ह्यणूनामानित्यत्वं गृह्यते ॥
किंच—दृश्यत्वात् । न ह्यणवो दृश्यन्ते । तथा स्पृश्यत्वाच्च हानाच्चोपादानाच्च धारणाच्चेत्येवमादयः । तेनावयविना व्यवहाराः क्रियन्ते नाणुभिरिति ॥
यस्य पुनः इत्थं प्रमाणसुप्रसिद्धसत्ताकोऽपि अवस्तु[कः] अवयवी, स प्रचयविशेषः सूक्ष्मं च कारणमनुपलभ्यं अण्वादि, तस्यावयव्यभावादतद्रूपप्रतिष्ठं मिथ्याज्ञानमिति प्रायेण सर्वमेव विषयज्ञानं प्राप्तं मिथ्याज्ञानम् ॥
ततः सर्वमेव ज्ञानं शब्दाद्याकारेण सुखाद्याकारेण तज्ज्ञानाकारेण चोपजायते । शब्दादयश्च ज्ञानाकारकरावयवित्वाभिमता नाभ्युपगम्यन्ते । सुखादयोऽपि विषयत्वादवयविपक्षा एव । तथा तज्ज्ञानमेव ज्ञानाकारकरत्वात्स्वरूपमपि मिथ्येति प्राप्तं सर्वमेव मिथ्याज्ञानम् ॥
ततश्च प्रत्यक्षानुमानयोरप्याभासत्वमेव तेनाभ्युपेतं तयोरपि शब्दादिविषयत्वात् ॥
तदा च सम्यग्ज्ञानमपि किं स्यात् ? विषयाभावात् । यद्यदुपलभ्यते तत्तत् अवयवित्वेनाम्नातम् ।
तस्मादस्त्यवयवी यो महत्त्वादिव्यवहारापन्नः समापत्तेर्निर्वितर्काया विषयीभवति ॥ ४३ ॥
यदपि सर्वज्ञज्ञानमनित्यदुःखशून्यानात्मकत्वादिविषयं तस्यापि विषयाभावात्तदपि मिथ्याज्ञानं प्राप्तमिति, स्वतन्त्रस्य तीर्थकरस्य चाप्रामाण्यं, तत्र तीर्थकरसहधर्माभावश्चाभ्युपगतो भवति । शब्दादिवत्प्रमाणविषयत्वाविशेषात् ॥
तदेतत्प्रतिपादयति—सम्यग्ज्ञानमपि किं स्याद्विषयाभावात् । यद्यदुपलभ्यते तत्तदवयवित्वेनाम्नातमिति, ज्ञानस्य स्वाकारसमर्पकत्वाविशेषात् । तच्च स्वाकारसमर्पकं किञ्चन नाभ्युपेयत इति सर्वस्यात्मीयस्य ज्ञानस्य तेन मिथ्यात्वमापादितम् ॥
तथा च सम्यग्ज्ञानमपि किं स्यात्, यदपेक्षया मिथ्याज्ञानमभिसन्धीयते ॥
यदा चावयविनं सर्वप्रमाणसम्यक्सर्वज्ञानसिद्धमपह्नुते तदा न सम्यग्ज्ञानस्य विषयः सम्पादयितुं पार्यते ॥
यदा च न पारयति, तदा कथमभिसन्दधीत सर्वं मिथ्येति । सम्यग्ज्ञानमपेक्ष्य मिथ्याज्ञानं मिथ्याभावमासीदति आपेक्षिकत्वात्सम्यङ्मिथ्याज्ञानयोः ॥
यश्चापि मन्यते—निर्विषयं ज्ञानं सम्यगिति, तस्यापि स्वरूपाग्रहणात् तदस्तित्वानुपपत्तिः । गृह्यते चेद्विषयत्वादवयविमिथ्यात्वं, तन्मिथ्यात्वाच्च तज्ज्ञानमिथ्यात्वं, तथा तज्ज्ञानमपीति सर्वमिथ्यात्वमुक्तं पूर्वमेव ॥
अपि च—निर्विषयज्ञानसम्यक्त्वे सर्वज्ञानस्य विषयानभ्युपगमान्निर्विषयत्वमिति, सम्यक्त्वमेव प्राप्नुयात् । तथापि तु सर्वज्ञानसम्यक्त्वान्मिथ्याज्ञानं किं स्यादिति वक्तव्यम् ॥
अथापि ब्रूयात्—यत्सविषयमिवाभाति तन्मिथ्याज्ञानं, यदत्यन्तनिर्विषयं तत्सम्यगिति । तथाऽपि तस्यास्तित्वे प्रमाणाभाव इत्युक्त एव दोषः । तस्मादवयवी सम्यग्ज्ञानस्य विषयोऽवश्याभ्युपगन्तव्यः इत्याह—तस्मादस्त्यवयवी यो महत्त्वाद्व्यवहारापन्नः समापत्तेर्निर्वितर्काया विषयीभवतीति ॥ ४३ ॥