साधनपादः · २.४७

 प्रयत्नशैथिल्यानन्त्यसमापत्तिभ्याम् ॥ ४७ ॥

व्यासभाष्यम्

 भवतीति वाक्यशेषः । प्रयत्नोपरमात् सिध्यत्यासनं, येन नाङ्गमेजयो भवति । अनन्ते वा समापन्नं चित्तमासनं निर्वर्तयतीति ॥ ४७ ॥

विवरणम्

 तथा कुञ्चितान्यतरपादमवनिविन्यस्तापरजानुकं वीरासनम् । उच्यमान एव विशेषः सर्वत्र ॥

 दक्षिणं पादाङ्गुष्ठं सव्येनोरुजङ्घेन परिगृह्यादृश्यं कृत्वा, तथा सव्यं पादाङ्गुष्ठं दक्षिणेनोरुजङ्घेनादृश्यं परिगृह्य, यथा च पार्ष्णिभ्यां वृषणयोरपीडनं तथा येनास्ते, तत् स्वस्तिकमासनम् ॥

 समगुल्फौ समाङ्गुष्ठौ प्रसारयन् समजानू पादौ दण्डवदेनोपविशेत्, तत् दण्डासनम् ॥

 (न)योगपट्टसं[स्थ]स्तम्भाद्याश्रयं वा सोपाश्रयम् ॥

 आजानुप्रसारितबाहुशयनं पर्यङ्कासनम् ॥

क्रौञ्चनिषदनं हस्तिनिषदनं उष्ट्रनिषदनं च क्रौञ्चादिनिषदनसंस्थानसादृश्यादेव द्रष्टव्यम् ॥

 भूमौ न्यस्तोरुजङ्घं समसंस्थितम् ॥

स्थितप्रस्रब्धिः । अन्येनापि प्रकारेण स्वयमुत्प्रेक्ष्य स्थितप्रस्रब्धिः । अनायासो येन भवति तदप्यासनं स्थितप्रस्रब्धिर्नाम ॥

यथासुखं च—येन रूपेणासीनस्य सुखं भवति तत् यथासुखम् । आदिशब्दादन्यदपि यथाचार्योपदिष्टमासनं द्रष्टव्यम् ॥ ४६ ॥

 तदासनजयाभ्युपाय इदानीमुपपाद्यते—प्रयत्नशैथिल्यानन्त्यसमापत्तिभ्याम् । भवतीति वाक्यशेषः । आसनं दृढनिष्पन्नं भवतीत्युपस्कारः । प्रयत्नोपरमादासनबन्धोत्तरकालं प्रयत्नाकरणाद्वा सिध्यति । येन नाङ्गमेजयो भवति । येन प्रयत्नोपरमेण । प्रयत्नेन ह्यङ्गं कम्पयति । येन अचलितासनो

पठन विकल्प

पठन अपनी सुविधा से चुनें

भाषा
पठन

दिखावट

18 px
पृष्ठ का रंग
Hide menus for a clear reading page.

विषयानुक्रमणिका

१समाधिपादः
Read the whole pada →
२साधनपादः
Read the whole pada →
३विभूतिपादः
Read the whole pada →
४कैवल्यपादः
Read the whole pada →

Pada 2 · Sutras

Read the whole pada →