दृग्दर्शनशक्त्योरेकात्मतेवास्मिता ॥ ६ ॥
पुरुषो दृक्शक्तिः, बुद्धिर्दर्शनशक्तिः, इत्येतयोरेकस्वरूपापत्तिरिवास्मिता क्लेश उच्यते ।
यावता गोष्पदमात्रं तदभावश्च श्रूयते । उच्यते—अत एव प्रयोगसामर्थ्यादत्यन्तागोष्पदार्थप्रतीतिः ॥
कथम् ? नञस्तावत् भावविरुद्धोऽर्थः, येन च सह प्रयुज्यते तदभावमाह ॥
ततश्चागोष्पदमिति गोष्पदप्रसक्तोऽर्थः, गोष्पदमात्रं, गोष्पदविरुद्धश्चेति त्रयोऽर्थाः प्रतिभान्ति । तत्र यदि गोष्पदमात्रं भवेत्तदा नञः प्रयोगोऽनर्थक एव । अन्याभावानुवादी चेद्गोष्पदे नञ् स्यादेवमप्यनर्थक एव ॥
अथ गोष्पदप्रसङ्गयुक्तेऽर्थे, तथाऽपि नञमुख्येऽर्थे प्रवृत्तस्स्यात्, गोभिरत्यन्तासेवितत्वस्यायुक्तत्वात् । यतः सेवितत्वे भविष्यत्यपि त्रिष्वपि कालेषु शब्दप्रयोगो युक्तः स्यात् । मुख्यश्चार्थो नाम स भवति, यत्र गोभिः सेवितं न भूतं न वर्तते नाऽपि भविष्यति । तस्मात्, सति सम्भवे नञर्थः स एव युक्त इति न सेवितप्रसङ्गो नाऽपि सेवितमात्र इष्यते । गोसेवितविरुद्ध एव देशोऽगोष्पदशब्देनाभिधीयते ॥
कथं पुनर्नीलोत्पलवद्विशेष्यविशेषणभाव एकस्य, भावाभावयोर्विरोधात् । तदभावप्रतिपादनमात्रेण संव्यवहारानुपपत्तेः यस्मिन्वस्तुनि तदभाव उच्यते तदेव वस्त्वन्तरं प्रतीयते । तदुक्तम्—“गोष्पदं सेवितासेवितप्रमाणेषु” इति ॥
अत्रासेवितग्रहणे पुनः क्रियमाणे च बहुव्रीहिरयं विज्ञायते, अविद्यमानसेवितोऽसेवित इति । (तस्मात्) एवमविद्या न प्रमाणं न च प्रमाणाभावः । किन्तु विपरीतं ज्ञानान्तरमिति ॥ ५ ॥
दृग्दर्शनशक्त्योरेकात्मतेवास्मिता । अधुना अस्मिताख्यं विपर्ययमाचष्टे—दृक् दर्शनं उपलब्धिः पुरुषः स एव शक्तिः । दृश्यतेऽनेनेति दर्शनं सैव शक्तिः अन्तःकरणाध्यवसायस्वरूपा । तयोः दृग्दर्शनशक्त्योः उपलब्ध्यध्यवसायस्वरूपयोः
भोक्तृभोग्यशक्त्योरत्यन्तविभक्तयोरत्यन्तासङ्कीर्णयोरविभागप्राप्ताविव सत्यां भोगः कल्पते । स्वरूपप्रतिलम्भे तु तयोः कैवल्यमेव भवति, कुतो भोग इति ।
तथा चोक्तम्—“बुद्धितः परं पुरुषमाकारशीलविद्यादिभिर्विभक्तमपश्यन् कुर्यात्तत्रात्मबुद्धिं मोहेन” इति ॥ ६ ॥
एकात्मतेव एकश्चासावात्मा च तस्य भाव एकात्मता । इवशब्देनात्यन्तविविक्ततामाचष्टे । एकस्वरूपापत्तिरिवास्मिता क्लेश उच्यते ॥
यस्मिन्नहंप्रत्यये चित्तपुरुषयोर्विवेको नोपलभ्यते सोऽयमहंप्रत्ययोऽस्मिताख्यः क्लेश उच्यते ॥
पूर्वत्र तु पुरुषोपकरणेऽन्तःकरणेऽनात्मन्यात्मख्यातिरिति विपरीतदर्शनमेवाविद्येत्युक्तम् । इह तु पुनर्बुद्धिपुरुषयोरविशेषदर्शनमेकस्वरूपापत्तिरिव दर्शनमस्मितेति विशेषः ॥
तदेतदुक्तं भवति—भोक्तृभोग्यशक्त्योरत्यन्तविविक्तयोः अत्यन्तासङ्कीर्णयोः अविभागप्राप्ताविव सत्यां भोगः कल्पते । भोगहेतुरस्मिताभिधानक्लेश इत्यर्थः । सति ह्यहंप्रत्यये सुखितोऽहं दुःखितोऽहमिति सुखदुःखादिसम्बन्धो भवति । तस्मादेतदेवमिति ॥
स्वरूपप्रतिलम्भे तु तयोः विवेके नाहं ममेति स्वरूपोपलब्धौ सत्यां बुद्धिपुरुषयोः कैवल्यमेव अविमिश्रतैव भवति । कुतो भोग इति । कारणे ह्यविशेषाहंप्रत्ययात्मनि सति कार्यं भोगः, तस्मिन्नसति कारणे न भोग इति ॥
न हि मनसि चेतनावत्त्वमनध्यारोप्य सुखित्वं दुःखित्वं वा शक्यं प्रत्येतुम् । अहंप्रत्ययविषयो हि सुखदुःखप्रत्ययाधिकरणम् । ‘अहं सुखी दुःखी चाहम्’ इति सामानाधिकरण्यात् । तस्मादस्मिताख्योऽहङ्कारो भोगहेतुः ॥
तथा चोक्तं—बुद्धितः परं पुरुषं बुद्धितः सकाशात् विभक्तं विलक्षणमन्यम् । कैर्गुणैर्विभाग इत्याह—आकारशीलविद्याभिः आकारेण वृत्तिसारूप्येण, शीलेन बुद्धिप्रतिसंवेदितया । विद्यया चैतन्यस्वरूपतया । अथवा आकारेण शुद्धानन्तस्वरूपत्वेन, शीलेन अपरिणामित्वादप्रतिसंक्रमत्वेन, विद्यया चितिशक्तिस्वरूपतया । तदेतैर्धर्मैर्बुद्धितो विभागः ॥