विभूतिपादः · ३.५५

सत्त्वपुरुषयोः शुद्धिसाम्ये कैवल्यमिति ॥ ५५ ॥

इति श्रीमहर्षिपतञ्जलिविरचिते योगसूत्रे तृतीयो विभूतिपादः ॥

व्यासभाष्यम्

 यदा निर्धूतरजस्तमोमलं बुद्धिसत्त्वं पुरुषान्यताप्रत्ययमात्रं दग्धक्लेशबीजं भवति, तदा पुरुषस्य शुद्धिसारूप्यमिवाऽऽपन्नं भवति, तदा पुरुषस्योपचरितभोगाभावः शुद्धिः । एतस्यामवस्थायां कैवल्यं भवतीश्वरस्यानीश्वरस्य

विवरणम्

 सर्वथाविषयं च सर्वम् अतीतानागतप्रत्युत्पन्नं सर्वपर्यायैः सर्वविशेषणैः सर्वथा सर्वेण प्रकारेण जानाति । अक्रमम् एकक्षणोपारूढम् । एकस्मिन् क्षणे सर्वं सर्वथा गृह्णाति । नास्मदादिवत् क्रमेण ॥

 तत् एतद्विवेकजं ज्ञानं परिपूर्णम्, अस्यैवांशो योगप्रदीपः । स एव ज्ञानांशो योगश्च प्रदीपश्च । योगस्य वा प्रदीपो योगप्रदीपः । मधुमतीं भूमिमुपादाय आरभ्य यावदस्य विवेकजस्य ज्ञानस्य परिसमाप्तिः तावत् । विवेकजज्ञानपरिसमाप्तिपर्यन्तानि ज्ञानानि मनोजवत्त्वादियुक्तानि अस्यैवांशः ॥ ५४ ॥

 योगजे ज्ञानैश्वर्ये अतिक्रान्ते परिसमापिते च । नातः परं योगज्ञानमैश्वर्यं च । तद(दु)पक्रमणाच्च प्राप्तज्ञानैश्वर्यस्यैव तद्वैराग्यानन्तरं कैवल्यमिति प्राप्तमत आह—प्राप्तविवेकज्ञानस्य [अप्राप्तविवेकज्ञानस्य वा] बाह्यदर्शननिवृत्तौ कैवल्यम् । कथमिति ? सत्त्वपुरुषयोः शुद्धिसाम्ये कैवल्यमिति ।

 यदा निर्धूतरजस्तमोमलं पुरुषान्यताप्रत्ययमात्रम् अन्यतामात्रप्रत्ययवैभवयुक्तं दग्धक्लेशबीजं विनिवृत्ताविद्याप्रत्ययवासनारूपं बुद्धिसत्त्वं भवति, तदा पुरुषस्य शुद्धिसारूप्यमिवापन्नम् ॥

व्यासभाष्यम्

वा विवेकजज्ञानभागिन इतरस्य वा । न हि दग्धक्लेशबीजस्य ज्ञाने पुनरपेक्षा काचिदस्ति । सत्त्वशुद्धिद्वारेणेतत्समाधिजमैश्वर्यं ज्ञानं चोपक्रान्तम् । परमार्थतस्तु ज्ञानाददर्शनं निवर्तते, तस्मिन्निवृत्ते न सन्त्युत्तरे क्लेशाः । क्लेशाभावात् कर्मविपाकाभावः । चरिताधिकाराश्चैतस्यामवस्थायां गुणा न पुरुषस्य पुनर्दृश्यत्वेनातिष्ठन्ते । तत् पुरुषस्य कैवल्यं, तदा पुरुषः स्वरूपमात्रज्योतिरमलः केवलीभवति ॥ ५५ ॥

इति श्रीपातञ्जलयोगसूत्रभाष्ये श्रीमद्वेदव्यासकृते

॥ विभूतिपादस्तृतीयः ॥

विवरणम्

 यद्यपि त्रिगुणं पुरुषविलक्षणं, पुरुषश्च तद्विलक्षणः, तथाऽपि पुरुषान्यताप्रत्ययपरिणामित्वात् शुद्धिसारूप्यमिवापन्नम् इत्युच्यते । एतस्यामवस्थायां कैवल्यं भवतीश्वरस्यानीश्वरस्य वा, विवेकज्ञानभागिनः इतरस्य वा । यस्मादुभयोरविद्यानिवृत्तिरेव कारणं तस्मात् । न हि दग्धक्लेशबीजस्य ज्ञाने काचिदपेक्षा । यतः सम्यग्दर्शी सर्वं त्रिगुणमिति मन्यते, त्रिगुणश्च प्रत्ययो हेय इति, मधुमत्यादिज्ञाने तस्य न कदाचिदप्यपेक्षा ॥

 यत्तु योगज्ञानमैश्वर्यं चोक्तं, तत् सम्यग्दर्शनार्थानुक्रान्तसत्त्वशुद्धिपदमार्गेण प्रक्रान्तमानुषङ्गिकम् । परमार्थतस्तु ज्ञानाददर्शनं विनिवर्तते । तस्मिन् विनिवृत्ते न सन्त्युक्तक्लेशाः अस्मितादयः । तेषामविद्याक्षेत्रत्वात् । क्लेशाभावाच्च कर्मविपाकाभावः “क्लेशमूलः कर्माशयः” “सति मूले तद्विपाकः” इति हि प्रतिपादितम् ॥

 तस्मात् सम्यग्दर्शनार्थमेवेदं शास्त्रम्, न ज्ञानैश्वर्यविभूतिप्रयोजनम् । चरिताधिकाराश्चैतस्यामवस्थायां गुणाः । न पुरुषस्य पुनर्दृश्यत्वेनातिष्ठन्ते । तत् पुरुषस्य कैवल्यम् । तदा पुरुषः स्वरूपमात्रज्योतिः इति अमलः केवलीभवति इति । इतिशब्दः समाप्त्यर्थः ॥ ५५ ॥

इति श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य परमहंसपरिव्राजकाचार्यस्य

श्रीशङ्करभगवतः कृतौ

पातञ्जलयोगसूत्रभाष्यविवरणे

॥ विभूतिपादस्तृतीयः ॥

पठन विकल्प

पठन अपनी सुविधा से चुनें

भाषा
पठन

दिखावट

18 px
पृष्ठ का रंग
Hide menus for a clear reading page.

विषयानुक्रमणिका

१समाधिपादः
Read the whole pada →
२साधनपादः
Read the whole pada →
३विभूतिपादः
Read the whole pada →
४कैवल्यपादः
Read the whole pada →

Pada 3 · Sutras

Read the whole pada →