विभूतिपादः · ३.२२

 सोपक्रमं निरुपक्रमं च कर्म तत्संयमादपरान्तज्ञानमरिष्टेभ्यो वा ॥ २२ ॥

व्यासभाष्यम्

 आयुर्विपाकं कर्म द्विधा—सोपक्रमं निरुपक्रमं च । तत्र यथाऽऽर्द्रं वस्त्रं वितानितं क्षेपीयसा कालेन शुष्येत् तथा सोपक्रमम् । यथा च तदेव संपिण्डितं चिरेण संशुष्येदेवं निरुपक्रमम् । यथा वा अग्निः शुष्के कक्षे युक्तवाते समन्ततो नियुक्तः क्षेपीयसा कालेन दहेत् तथा

विवरणम्

निरुणद्धि । ततः परेषां चक्षुःप्रकाशो योगिकायरूपेण न सम्प्रयुज्यते । ततश्च अन्तर्धानम् । एतेन शब्दाद्यन्तर्धानमुक्तम् । योगिशब्दस्य या ग्राह्यशक्तिः तस्यां संयमे सति या शब्दस्य ग्राह्यशक्तिः सा प्रतिष्टभ्यते । तेन योगिशब्दं न परः शृणोति । तथा स्पर्शादिष्वपि द्रष्टव्यम् ॥ २१ ॥

 सोपक्रमं निरुपक्रमं च कर्म तत्संयमादपरान्तज्ञानमरिष्टेभ्यो वा । आयुर्विपाकं कर्म द्विधा । कथम् ? त्वरितं निमित्तमादाय फलप्रदं सोपक्रमम् उच्यते । यत्तु मन्दप्रसरं चिरेण फलं दास्यति तत् निरुपक्रमम् ॥

 यथा आर्द्रं वस्त्रं वितानितं विस्तारितं क्षेपीयसा क्षिप्रतरेण कालेन शुष्येत्, तथा सोपक्रमं कर्म क्षिप्रमायुर्विपाकं कृत्वा क्षीयते ॥

 तदेव वस्त्रं सम्पिण्डितं अवितानितम् चिरेण शुष्येदेवं निरुपक्रमं चिरेण आयुः करोति ॥

 यथा वा अग्निः शुष्के कक्षे युक्तवाते अनुकूलमातरिश्वनि समन्ततो नियुक्तः क्षेपीयसा कालेन दहेत्, तथा सोपक्रमं कर्म क्षेपीयसा कालेन आयुर्धक्ष्यति ॥

१ द्विविधं
२ लघीयसा

३ मुक्तो वातेन

४ युक्तः

[ भाष्यम् ]

सोपक्रमम् । यथा वा स एवाग्निस्तृणराशौ क्रमेण न्यस्तश्चिरेण दहेत् तथा निरुपक्रमम् । तदैकभविकमायुष्करं कर्म द्विविधम्—सोपक्रमं निरुपक्रमं च । तत्संयमादपरान्तस्य प्रायणस्य ज्ञानम् ।

 अरिष्टेभ्यो वेति । त्रिविधमरिष्टमाध्यात्मिकमाधिभौतिकमाधिदैविकं चेति । तत्राऽऽध्यात्मिकं, घोषं स्वदेहे पिहितकर्णो न शृणोति । ज्योतिर्वा नेत्रेऽवष्टब्धे न पश्यति । तथाऽऽधिभौतिकं, यमपुरुषान् पश्यति, पितॄनतीतानागतानकस्मात् वेत्ति । तथाऽऽधिदैविकं, अकस्मात् सिद्धादीन् पश्यति । विपरीतं वा सर्वामेति । अनेन वा जानात्यपरान्तमुपस्थितमिति ॥ २२ ॥

पठन विकल्प

पठन अपनी सुविधा से चुनें

भाषा
पठन

दिखावट

18 px
पृष्ठ का रंग
Hide menus for a clear reading page.

विषयानुक्रमणिका

१समाधिपादः
Read the whole pada →
२साधनपादः
Read the whole pada →
३विभूतिपादः
Read the whole pada →
४कैवल्यपादः
Read the whole pada →

Pada 3 · Sutras

Read the whole pada →