परमाणुपरममहत्त्वान्तोऽस्य वशीकारः ॥ ४० ॥
व्यासभाष्यम्
सूक्ष्मे निविशमानस्य परमाण्वन्तं स्थितिपदं लभत इति । स्थूले निविशमानस्य परममहत्त्वान्तं स्थितिपदं चित्तस्य । एवं तामुभयीं कोटिमनुधावतो योऽस्याप्रतीघातः स परो वशीकारः । तद्वशीकारात् परिपूर्णं योगिनिश्चित्तं न पुनरभ्यासकृतं परिकर्मापेक्षत इति ॥ ४० ॥
अथ लब्धस्थितिकस्य चेतसः किंस्वरूपा किंविषया वा समापत्तिः ? इति—तदुच्यते—