विभूतिपादः · ३.३९

उदानजयाज्जलपङ्ककण्टकादिष्वसङ्ग उत्क्रान्तिश्च ॥ ३९ ॥

             [ भाष्यम् ] 
समस्तेन्द्रियवृत्तिः प्राणादिलक्षणा जीवनं, तस्य क्रिया पञ्चतयी-
            [ विवरणम् ] 
    बन्धकारणशैथिल्यात् प्रचारसंवेदनाच्च चित्तस्य परशरीरावेशः । लोलीभूतस्य घण्टाभिघाततुल्यस्य देदीप्यमानाङ्गारराशिद्युतिचञ्चलस्य मनसोऽप्रतिष्ठस्य शरीरे कर्माशयाद्बन्धः प्रतिष्ठेत्यर्थः । शरीरमात्रसंकोचावस्थानम् ॥ 
      तस्य बन्धस्य कर्म कारणम् । कारणशैथिल्यं, कर्माशयशिथिलत्वं समाधिबलाद्भवति । प्रचारसंवेदनं च चित्तस्य समाधिजमेव । कर्मबन्धक्षयात् स्वचित्तप्रचारसंवेदनाच्च ‘अस्मिन्निमित्ते हृष्यति मुह्यति लुभ्यति चानेन कारणेन’ इत्येवमादिस्वचित्तसञ्चरणसतत्त्ववेदनाच्च योगी चित्तं स्वशरीरान्निष्कृष्य शरीरान्तरेषु निक्षिपति ॥

चित्तम् अस्य उत्पतत् इन्द्रियाणि अनूत्पतन्ति । तस्मादिन्द्रियवृत्तिलाभात् परशरीरेषु प्राणादिवृत्तय उत्पद्यन्ते । यथा मधुकरराजं मक्षिका उत्पतन्तमनूत्पतन्ति, निविशमानमनु निविशन्ते, तथेन्द्रियाणि परशरीरावेशे चित्तमनु विधीयन्ते ॥ ३८ ॥ उदानजयात् जलपङ्ककण्टकादिष्वसङ्ग उत्क्रान्तिश्च । समस्तेन्द्रियवृत्तिः जीवनं सर्वेषामेकादशानामिन्द्रियाणां वर्तनं जीवनम् । यथा पञ्जरगतशकुनिसञ्चलनेन पञ्जरचलनम्, एवम् अशेषकरणानामेकेन संमूर्छितेन व्यापारेण येन शरीरं ध्रियते तज्जीवनम् । तस्य जीवनस्य पुरुषार्थकर्तव्यतानियमात् पञ्चतयी क्रिया प्राणापानव्यानोदानसमानभेदेन प्रस्तीर्यते ॥

पठन विकल्प

पठन अपनी सुविधा से चुनें

भाषा
पठन

दिखावट

18 px
पृष्ठ का रंग
Hide menus for a clear reading page.

विषयानुक्रमणिका

१समाधिपादः
Read the whole pada →
२साधनपादः
Read the whole pada →
३विभूतिपादः
Read the whole pada →
४कैवल्यपादः
Read the whole pada →

Pada 3 · Sutras

Read the whole pada →