ततो मनोजवत्वं विकरणभावः प्रधानजयश्च ॥ ४८ ॥
व्यासभाष्यम्
कायस्यानुत्तमो गतिलाभो मनोजवत्वम् । विदेहानामिन्द्रियाणामभिप्रेतदेशकालविषयापेक्षो वृत्तिलाभो विकरणभावः । सर्वप्रकृतिविकारवशित्वं प्रधानजयः, इत्येतास्तिस्रः सिद्धयो मधुप्रतीका उच्यन्ते । एताश्च करणपञ्च स्वरूपजयादधिगम्यन्ते ॥ ४८ ॥