ततस्तद्विपाकानुगुणानामेवाभिव्यक्तिर्वासनानाम् ॥ ८ ॥
अपि चाविदुष एव सर्वं कर्म । विदुषः कर्मानुत्पत्तेः । विद्वान् हि पुरुषः स्वरूपावस्थानव्यतिरेकेण फलं नाभिमन्यते । स्वरूपमात्रावस्थानं च समस्तव्यापारविरामेण प्रवर्तते । न चैवं विदुषः क्रियाऽनुष्ठानं घटते । न हि स्थलपथेनाभिप्रतिष्ठासमानो जलमार्गाभिप्रस्थानसाधनं नावादिकमनुतिष्ठति ।
ननु (न च) नित्यकाम्ययोरेवं सत्यविशेषः स्यात् । अत्रोच्यते—कामितफल(तन्मात्रं नि)कर्ममात्रनिवृत्तिप्रयोजनत्वान्नित्यानामदोषः । यो हि काम्याद्विनिवृत्तस्तस्य बहुलं कर्मणां कामरहितेन शुद्धेन कर्त्रा कृतत्वादतिशुद्धफलत्वं शुक्लत्वबहुत्वाञ्च संस्कारार्थत्वम् । अपि च कामनिवृत्तिरेव महत् फलम् ।
किं च, नित्यं कुर्वतः किमर्थं करोमि, किं वाऽस्य फलं, के वास्यानुष्ठाने दोषाः, इति सम्यग्दर्शनरूपः परामर्शो जायत इति नित्यस्यास्ति विशेषः । शुक्लकृष्णात्मकत्वं त्वविशिष्टमुभयेषामपि कर्मणाम् । बाह्यसाधनसाधनीयत्वेन परपीडोपपत्तेः । [इति] तस्मादुच्यते ॥
शुक्ला कर्मजातिः तपस्स्वाध्यायध्यानवताम् । सा हि केवले मनस्यायत्तत्वादबहिस्साधना बाह्यसाधानानपेक्षा न परान् पीडयित्वा भवति ॥
अशुक्लाकृष्णा संन्यासिनां क्षीणक्लेशानां चरमदेहानाम् । एषाम् आरब्धैकशरीराणाम् अशुक्ला संन्यासात् अकृष्णा च अनुपादानात् अकरणात् । नापि शुक्लकृष्णविमिश्रा, बाह्यसंन्यासानुपादानाभ्यां हेतुभ्याम् । तथा चोक्तम्—
तत इति त्रिविधात्कर्मणः, तद्विपाकानुगुणानामेवेति यज्जातीयस्य कर्मणो यादृशो विपाकस्तस्यानुगुणा या वासनाः कर्मविपाकमनुशेरते तासामेवाभिव्यक्तिः । न हि दैवं कर्म विपच्यमानं नारकतिर्यङ्मनुष्यवासनाभिव्यक्तिनिमित्तं संभवति । किंतु दैवानुगुणा एवास्य वासना अभिव्यज्यन्ते । नारकतिर्यङ्मनुष्येषु चैवं समानश्चर्चः ॥ ८ ॥
अनिष्टमिष्टं मिश्रं च त्रिविधं कर्मणः फलम् ॥ भवत्य[त्यागिनां]योगिनां प्रेत्य न तु संन्यासिनां क्वचित् ॥ इति ॥
इतरेषां तु भूतानां जन्मौषधिमन्त्रतपस्सिद्धानामन्येषां च त्रिविधं शुक्लं कृष्णं मिश्रं च पूर्वमिव यथा द्वितीये पादे ‘क्लेशमूलः’ इत्यादौ ॥ ७ ॥
कैवल्यस्य प्रस्तुतत्वात् तस्य च प्रतिबन्धहेतवः क्लेशाः, कर्माणि, वासनाश्च, [व्याख्यातव्याः] । क्लेशानां तु व्यापारः, प्रतिपक्षः, निवृत्तिश्च तेषां, विस्तरेण व्याख्याताः । एवं कर्मणामपि वासनानां तुल्यव्यापारावस्थानप्रतिपक्षनिवृत्तयो निर्वर्णनीया इत्यत उत्तराणि सूत्राण्यारभ्यन्ते—यतस्तन्निवृत्तौ कैवल्यमुपपद्यते नान्यथा । ततस्तद्विपाकानुगुणानामेवाभिव्यक्तिर्वासनानाम् ॥
ततः तस्मात् त्रिविधात् उक्तलक्षणात् कृष्णशुक्लविमिश्ररूपात् कर्मणः प्रविपच्यमानाद्धेतुभूतात् तद्विपाकानुगुणानां तस्यैव कर्मणो विपाकः फलं तदनुगुणानां तदनुरूपाणां तादृशीनाम् एव वासनानामभिव्यक्तिः ॥
एतदुक्तं भवति—देवतिर्यङ्मनुष्यविपाकहेतुषु कर्मसु मध्ये यञ्जातीयस्य कर्मणो यादृशो विपाकः तस्य विपाकस्य अनुगुणा वासनाः तत् कर्मविपाकमनुशेरते अनूत्पद्यन्ते, तासामेवाभिव्यक्तिः । तत्सदृशेन कर्मविपाकेन संस्कृतत्वात् । यथा मातृसदृशीं प्रविलोक्य वत्सोऽनुधावति । नान्यासामतदनुगुणानामभिव्यक्तिः ॥
न हि दैवं कर्म विपच्यमानं फलाभिमुखीभावमापद्यमानं नारकतिर्यङ्मनुषवासनाभिव्यक्तिनिमित्तं[सं]भवति । निमित्तनैमित्तिकयोः प्रतिनियतानुगुणत्वात् । किं तु दैवानुगुणा एवास्याभिव्यज्यन्ते । नारकतिर्यङ्मानुषेष्वेवं समानश्चर्चः समाधिः ॥