निमित्तमप्रयोजकं प्रकृतीनां वरणभेदस्तु ततः क्षेत्रिकवत्॥३॥
सोमामलकादिभक्षणेन पूर्वदेहानपनयेनैव । मन्त्रैः उपजप्यमानैः आकाशगमनादि । तपसा संकल्पसिद्धिः कामरूपी यत्र कामगमन इत्येवमादिः । समाधिजाः सिद्धयः पूर्वमेव व्याख्याताः ॥१॥
तत्र सिद्धिः कार्यकरणानामुत्कर्षः । जन्मसिद्धौ तु पतितपूर्वोपार्जित- कार्यकरणस्य शरीरान्तरमुपादायिष्यत इति नास्ति तत्र संशयः । अपतितशरीरस्य तु जात्यन्तरपरिणामे किं तदेव कार्यकरणमुपादानमुतान्यदपीति— तत्र कार्येन्द्रियाणामन्यजातिपरिणतानां—जात्यन्तरपरिणामः प्रकृत्यापूरात् ॥
पूर्वपरिणामापाये समवस्थितानामेव पूर्वकार्यकरणानाम् उत्तरपरिणामोपजनः अपूर्वावयवानुप्रवेशेन भवति । कस्मात् ? अल्पपरिमाणस्योपादानस्य महापरिमाणकार्यानुपपत्तेः । न हि दशपलात्तपनीयपिण्डादशीतिपला पत्री जनिष्यते ?
कायेन्द्रियप्रकृतयः स्वं स्वं विकारं कायमिन्द्रियं वा अनुगृह्णन्त्यापूरेण धर्मादिनिमित्तम् आदिग्रहणादधर्ममपि निमित्तम् अपेक्षमाणाः ॥
धर्मादिनिमित्तमपेक्षमाणाः स्वं स्वं विकारमनुगृह्णन्ति इत्युक्तम् । तत्र किं धर्मादिनिमित्तं प्रकृतीनां प्रयोजकं, किं वा नेति, तदाह—निमित्तमप्रयोजकं
न हि धर्मादि निमित्तं प्रयोजकं प्रकृतीनां भवति । न कार्येण कारणं प्रवर्त्यत इति । कथं तर्हि? वरणभेदस्तु ततः क्षेत्रिकवत् । यथा क्षेत्रिकः केदारादपां पूर्णात्केदारान्तरं पिप्लावयिषुः समं निम्नं निम्नतरं वा नापः पाणिनाऽपकर्षति, आवरणं तु तासां भिनत्ति । तस्मिन्भिन्ने स्वयमेवाऽऽपः केदारान्तरमाप्लावयन्ति, तथा धर्मः प्रकृतीनामावरणमधर्मं भिनत्ति, तस्मिन्भिन्ने स्वयमेव प्रकृतयः स्वं स्वं विकारमाप्लावयन्ति । यथा वा स एव क्षेत्रिकस्तस्मिन्नेव केदारे न प्रभवत्यौदकान्भौमान्वा रसान्धान्यमूलान्यनुप्रवेशयितुं, किं तर्हि ? मुद्गतिन्दुकगवीथुकश्यामाकादिस्ततोऽपकर्षति । अपकृष्टेषु तेषु स्वयमेव रसा धान्यमूलान्यनुप्रविशन्ति,
प्रकृतीनां वरणभेदस्तु ततः क्षेत्रिकवत् । न हि धर्मादिनिमित्तं प्रयोजकं प्रकृतीनाम् । कस्मात् ? न हि कार्येण धर्मादिना निमित्तेन कारणं कार्यकरणप्रतिरूपं प्रवर्त्यते ॥
कथं तर्हि? वरणभेदस्तु ततः धर्मादिनिमित्तात् भवति । क्षेत्रिकवत् । यथा क्षेत्रिकः केदारादपां पूर्णात् केदारान्तरं पिप्लावयिषुः नापः पाणिना अपकर्षति । आवरणं तु तासां भिनत्ति । तस्मिन् भिन्ने स्वयमेवाऽऽपः केदारान्तरमाप्लावयन्ति ॥
तथा धर्मः प्रकृतीनामावरणमधर्मं भिनत्ति । धर्ममधर्मोऽपि भिनत्त्यावरणम् । तस्मिन् भिन्ने स्वयमेव प्रकृतयः स्वं स्वं विकारमाप्लावयन्ति पूरयन्ति ॥
यथा वा स एव क्षेत्रिकस्तस्मिन्नेव केदारे न प्रभवत्यौदकान् भौमान् वा रसान् धान्यमूलान्यनुप्रवेशयितुम् । किं तु मुद्गतिन्दुकगवीथुकश्यामाकादीन् तस्मात् धान्यमूलात् अपकर्षति । अपकृष्टेषु तेषु स्वयमेव रसा धान्यमूलान्यनुप्रविशन्ति ॥
तथा धर्मो निवृत्तिमात्रे कारणमधर्मस्य शुद्धयशुद्धयोरत्यन्तविरोधात्, न तु प्रकृतिप्रवृत्तौ धर्मो हेतुर्भवतीति । अत्र नन्दीश्वरप्रभृतयः उदाहार्याः । विपर्ययेणाप्यधर्मो धर्मं बाधते । ततश्चाशुद्धिपरिणाम इति । तत्रापि नहुषाजगरादय उदाहार्याः ॥ ३॥ यदा तु योगी बहून्कायान्निर्मिमीते, तदा किमेकमनस्कास्ते भवन्त्यथानेकमनस्का इति—