तदपि बहिरङ्गं निर्बीजस्य ॥ ८ ॥
तदपि अन्तरङ्गं साधनत्रयं, निर्बीजस्य योगस्य बहिरङ्गं भवति । कस्मात् ? । तदभावे भावात् इति ॥ ८ ॥
अथ निरोधचित्तक्षणेषु, चलं गुणवृत्तम् इति कीदृशस्तदा निरोधपरिणामः ?—
विनापि हि यमादिसाधनपञ्चतयसम्पादनेन जन्मान्तरविहितसंस्कारावेशवशादेव विदेहप्रकृतिलयानामिव धारणादित्रयसम्पत्त्या योग उपकल्प्यते । धारणादित्रयेण विना न योगः संभवति कस्यचित् । तद्व्यापारनैरन्तर्यसंवादात्मकत्वाद्धारणादित्रयस्य । योगस्य चित्तसम्पत्तिरूपत्वात् ॥
यदा तु ज्ञानवैराग्यसम्पत्तिः, तदा न किंचिदन्यद्धारणाद्यप्यपेक्ष्यते । तथा च मङ्किपिङ्गलाप्रभृतीनामनुश्रूयते वैराग्यादेव समस्तसिद्धिः । तथा चोक्तम्—‘स्थानासनविधानानि’ इति पूर्वत्र श्लोकद्वयम् ॥ ७ ॥
तदपि बहिरङ्गं निर्बीजस्य । तदपि एतत् अन्तरङ्गमपि सबीजस्य योगस्य, बहिरङ्गं भवति निर्बीजस्य योगस्य । कस्मात् ? तदभावे भावात् । तस्य सबीजान्तरङ्गसाधनत्रयस्याभावेऽपि पुरुषसत्त्वविशेषापेक्षया निर्बीजयोगस्य भावात् बहिरङ्गत्वम् ॥
केचिदतिसमीचीनदर्शना जन्मनैव संस्कारादुपरक्ताः । तेषां परवैराग्यविरामप्रत्ययसंशीलनादिसमीक्षया निर्बीजः समाधिरुपजनिष्यत एव । न हि तेषां धारणादिसमीक्षणम् । तथा चोक्तम्—‘उक्तः समाहितचित्तस्य योगः । व्युत्थितचित्तोऽपि कथं योगयुक्तः स्यादित्यत इदमारभ्यते’ इति । तथा ‘भवप्रत्ययो विदेहप्रकृतिलयानाम्’ इति ॥ ८ ॥
अथ निरोधचित्तक्षणेषु निरोधयुक्तं निरुध्यमानं चित्तं येषु क्षणेषु निरुध्यते ते निरोधचित्तक्षणाः तेषु निरोधकाले इत्यर्थः । क्षणेष्विति बहुवचनं अतीतानागतवर्तमानवृत्तित्वप्रदर्शनार्थम् ॥
3. यो. सू. पा. 1. सू. 19.विभूतिपादः तृतीयः