विभूतिपादः · ३.५४

 तारकं सर्वविषयं सर्वथाविषयमक्रमं चेति विवेकजं ज्ञानम् ॥ ५४ ॥

व्यासभाष्यम्

 तारकमिति स्वप्रतिभोत्थमनौपदेशिकमित्यर्थः । सर्वविषयं, नास्य किंचिदविषयीभूतमित्यर्थः ॥

विवरणम्

 यदा पूर्वः परमाणुरुत्तरपरमाणुरूपेण परिणमते, पूर्वपरमाणुरूपेण चोत्तरः, तत्रावस्थितान्त्यविशेषाभावाद्विवेकप्रतिपत्तिरनुपपन्ना । तत्रावश्यं क्षणतत्क्रमसंयमजनितविवेकज्ञानादेव संप्रतिपत्तिः । अनित्याश्च परमाणव इति ह्युक्तम् । तस्मात् क्षणभेदस्तु योगिबुद्धिगम्य एव ॥
 तथा चानित्यत्वस्य परमाणूनामाचार्यान्तरमतप्रतिपादनद्वारेण प्रसिद्धिं दर्शयति—अत उक्तम्—मूर्तिव्यवधिजातिभेदाभावात् नास्ति मूल(जाति)पृथक्त्वमिति वार्षगण्यः । यथा प्रतिक्षेत्रज्ञं प्रधानबहुत्वं न्यायविरुद्धं मूर्तिव्यवधिजातिभेदाभावात् प्रधानानां पृथक्त्वम् एकपुरुषार्थदृश्यवत् अनुपपन्नम्, एवं परमाणूनामपि मूलत्वे पृथक्त्वं नोपकल्पते । ततश्च एकं मूलमिति प्राप्तम् । न परमाणुभेदो हि नित्यो युक्तः । परमाणूनां च मूर्तत्वात् रूपादिमत्त्वाच्च अनित्यत्वम् घटादिवदेवेति ॥ ५३ ॥
 तारकं सर्वविषयं सर्वथाविषयम् अक्रमं चेति विवेकजं ज्ञानम् । काष्ठाप्राप्तं ज्ञानं देवर्षिगन्धर्वादीनाम् । तारकमिति । विवेकजमिदमुच्यते स्वप्रतिभोत्थमनौपदेशिकमित्यर्थः । नान्येनोपदेष्टुं शक्यं, नाप्युपदेशेन यथावत् ग्रहीतुं शक्यते । यस्मात् तत् सर्ववस्तुविषयम् । नास्य किंचिदविषयीभूतम् ।

व्यासभाष्यम्

 सर्वथाविषयमतीतानागतप्रत्युत्पन्नं सर्वपर्यायैः सर्वथा जानातीत्यर्थः । अक्रममित्येकक्षणोपारूढं सर्वं सर्वथा गृह्णातीत्यर्थः ।

 एतद्विवेकजं ज्ञानं परिपूर्णम् । अस्यैवांशो योगप्रदीपो मधुमतीं भूमिमुपादाय यावदस्य परिसमाप्तिरिति ॥ ५४ ॥

 प्राप्तविवेकजज्ञानस्याप्राप्तविवेकजज्ञानस्य वा—

पठन विकल्प

पठन अपनी सुविधा से चुनें

भाषा
पठन

दिखावट

18 px
पृष्ठ का रंग
Hide menus for a clear reading page.

विषयानुक्रमणिका

१समाधिपादः
Read the whole pada →
२साधनपादः
Read the whole pada →
३विभूतिपादः
Read the whole pada →
४कैवल्यपादः
Read the whole pada →

Pada 3 · Sutras

Read the whole pada →