सत्त्वपुरुषान्यताख्यातिमात्रस्य सर्वभावाधिष्ठातृत्वं सर्वज्ञातृत्वं च ॥ ४९ ॥
निर्धूतरजस्तमोमलस्य बुद्धिसत्त्वस्य परे वैशारद्ये परस्यां वशीकारसंज्ञायां वर्तमानस्य सत्त्वपुरुषान्यताख्यातिमात्ररूपप्रतिष्ठस्य सर्वभावाधिष्ठातृत्वम् ।
ततो मनोजवत्वं विकरणभावः प्रधानजयश्च । तत इन्द्रियजयात् कायस्यानुत्तमः न विद्यतेऽस्मादुत्तम इत्यनुत्तमः गतिलाभो मनोजवत्वम् । विदेहानां शरीरनिरपेक्षाणां इन्द्रियाणां अभिप्रेतदेशापेक्षोऽभिप्रेतकालापेक्षोऽभिप्रेतशब्दादिविषयापेक्षश्च वृत्तिलाभो विकरणभावः । सर्वप्रकृतिविकारवशित्वं अष्टानां प्रकृतीनां तद्विकाराणां च वशित्वं प्रधानजय इत्येतास्तिस्रः सिद्धयो मधुप्रतीकाः इति उच्यन्ते । ताश्च पञ्चस्वरूपजयादधिगम्यन्ते ॥ ४८ ॥
सत्त्वपुरुषान्यताख्यातिमात्रस्य सर्वभावाधिष्ठातृत्वं सर्वज्ञातृत्वं च । सर्वप्रकारेण सर्वसाधनेन निर्धूतरजस्तमोमलस्य सत्त्वस्य परे वैशारद्ये स्वच्छे स्थितिप्रवाहे परे वर्तमानस्य परस्यां वशीकारसंज्ञायां ज्ञानप्रसादमात्रे निरतिशये वर्तमानस्य सत्त्वपुरुषान्यताख्यातिमात्ररूपप्रतिष्ठस्य सर्वभावाधिष्ठातृत्वम् । सर्वस्य वस्तुजातस्येष्टे ॥
सर्वात्मना गुणाध्यवसायात्मकाः स्वामिनं क्षेत्रज्ञं प्रत्यशेषदृश्यात्मत्वेनोपस्थिता इत्यर्थः । सर्वज्ञातृत्वं सर्वात्मकानां गुणानां शान्तोदिताव्यपदेश्यधर्मत्वेन व्यवस्थितानामक्रमोपारूढं विवेकजं ज्ञानमित्यर्थः । इत्येषा विशोका नाम सिद्धिर्यां प्राप्य योगी सर्वज्ञः क्षीणक्लेशबन्धनो वशी विहरति ॥ ४९ ॥