साधनपादः · २.२३

स्वस्वामिशक्त्योः स्वरूपोपलब्धिहेतुः संयोगः ॥ २३ ॥

व्यासभाष्यम्

 पुरुषः स्वामी दृश्येन स्वेन दर्शनार्थं संयुक्तः । तस्मात् संयोगात् दृश्यस्योपलब्धिर्या स भोगः । या तु द्रष्टुः स्वरूपोपलब्धिः सोऽपवर्गः ।

विवरणम्

 अतश्च दृग्दर्शनशक्त्योर्नित्यत्वादनादिः संयोगो व्याख्यातः । तथा चोक्तं तन्त्रे—धर्मिणामनादिसंयोगात् गुणानां पुरुषाणां चानादिसंयोगाद्धर्ममात्राणां महदादिकार्यकरणान्तानामपि पुरुषैरनादिः संयोगो धर्मिभिर्धर्माणामभिन्नत्वात् ॥ २२ ॥

 दृश्यमवधृतम् । द्रष्टा चावधृतः । द्रष्टृदृश्ययोः संयोगो हेयहेतुरिति चोक्तम् । स च संयोगोऽवधारयितव्यः कीदृश इति । ततश्च संयोगस्वरूपावधारणार्थमिदं सूत्रं प्रववृते—स्वस्वामिशक्त्योः स्वरूपोपलब्धिहेतुः संयोगः । स्वस्वामिशक्त्योः बुद्धिपुरुषयोः स्वरूपोपलब्धेर्हेतुः कारणम् । यस्मिन् सति तयोः स्वरूपमुपलभ्यते वदनदर्पणयोरिव, स तयोः स्वरूपोपलब्धिहेतुः । संयोगः द्रष्टृदृश्यस्वरूपकार्यानुमेय इत्यर्थः ॥

 प्रमाणं चात्र स्वसंयोगपूर्विका बुद्धिपुरुषयोः स्वरूपोपलब्धिः, विषयविषयिस्वरूपोपलब्धित्वात्, ईक्षणदर्पणस्वरूपोपलब्धिवत् । या काचित् सुखदुःखोपलब्धिर्विवादगोचरापन्ना सा सुखदुःखहेतुसंयोगपूर्विका, सुखदुःखोपलब्धित्वात्, चन्दनकण्टकसुखदुःखोपलब्धिवत् ॥

 तदाह—पुरुषः स्वामी दृश्येन स्वेन स्वया बुद्ध्या दर्शनार्थं भोगापवर्गदर्शनार्थं संयुक्तः । दर्शनप्रयुक्त एव संयोग इत्यर्थः ॥

तस्मात् संयोगाद्दर्शनप्रयुक्ता दृश्यस्योपलब्धिः अविशिष्टा या स भोगः । या तु द्रष्टुः स्वरूपोपलब्धिर्विविक्ता सोऽपवर्गः । यस्माद्दर्शनकार्यद्वयप्रयुक्तः
व्यासभाष्यम्

दर्शनकार्यावसानः संयोग इति दर्शनं वियोगस्य कारणमुक्तम् । दर्शनमदर्शनस्य प्रतिद्वन्द्वीत्यदर्शनं संयोगनिमित्तमुक्तम् । नात्र दर्शनं मोक्षकारणम्, अदर्शनाभावादेव बन्धाभावः स मोक्ष इति । दर्शनस्य भावे बन्धकारणस्यादर्शनस्य नाश इत्यतो दर्शनं ज्ञानं कैवल्यकारणमुक्तम् ।

 किं चेदमदर्शनं नाम ?

विवरणम्

संयोगस्तस्माद्दर्शनकार्यावसानः संयोगः तेन पुरुषसंयोगवद्दर्शनं वियोगस्य कारणमित्युक्तम् । गुणपुरुषान्तरदर्शनं प्रधानपुरुषवियोगस्य कारणमित्युक्तं, कार्यस्य दर्शनेन पर्यवसितत्वात् ॥

 संसारिसंसारहेतुयाथात्म्यदर्शनं दुःखदुःखिसंयोगहेतुनिवर्तकं, दुःखिदुःखहेतुयाथात्म्यविषयत्वात्, रोगिरोगहेतुयाथात्म्यदर्शनवत् ॥

 अविद्या द्रष्टृदृश्ययोः संयोगकारणं, दुःखनिमित्तसंयोगहेतुत्वात्, रोगहेतुसंयोगनिमित्तमिथ्याज्ञानवत् । द्रष्टृदृश्यसंयोगो मिथ्याज्ञानपूर्वकः, दुःखहेतुत्वात्, रोगिरोगहेतुसंयोगवत् । यस्माद्दुःखिदुःखहेतुयाथात्म्यविषयं दर्शनं, तस्मात्तदन्यथाविषयस्यादर्शनस्य प्रतिद्वन्द्वमित्यदर्शनं संयोगनिमित्तमित्युक्तं तस्य हेतुरविद्येति । दुःखनिमित्तत्वाच्च संयोगस्य ॥

 यस्माददर्शनमेव निवर्तयति दर्शनं नान्यत्कार्यं करोति, तस्मान्नात्र दर्शनं मोक्षकारणम्, अदर्शनाभावादेवार्थाददर्शनकार्यस्य दुःखहेतोर्बन्धस्याभावः, स मोक्षः । न पुनर्बन्धाभावव्यतिरेकेण भावयितव्यो मोक्षः । ततश्च मोक्षस्य नित्यत्वसिद्धिः ॥

 दर्शनस्य भावे द्रष्टृदृश्यविषयस्य दर्शनस्य भावे तद्विषयस्यादर्शनस्य नाशः । दर्शनादर्शनयोरेकत्र विरोधात् तिमिररविकिरणजालयोरिव । अतो दर्शनं कैवल्यकारणमुक्तम्—‘विवेकख्यातिरविप्लवा हानोपायः’ इति ॥

किंचेदमदर्शनं नाम ? ननु चोक्तमविद्यैव । सा चामित्रागोष्पदवदिति विद्याविपर्ययेण व्याख्याता । सत्यमेवं, किन्तु शास्त्रगता विकल्पा दर्शयिष्यन्ते  1. यो. सू. पा. 2. सू. 26.

 2. यो. सू. पा. 2. सू. 5.
व्यासभाष्यम्

 किं गुणानामधिकारः ?

 आहोस्वित् दृशिरूपस्य स्वामिनो दर्शितविषयस्य प्रधानचित्तस्यानुत्पादः, स्वस्मिन् दृश्ये विद्यमाने यो दर्शनाभावः ?  किमर्थवत्ता गुणानाम् ?

विवरणम्

स्वाभिमतपक्षनिश्चिचीषया । परपरिकल्पितवस्तुखण्डिमानमापादयता हि निजाभिमतनिरूपितवस्तु द्रढिमानमतितरामानीयते ॥

 किंचेदमिति सर्वैरेव विकल्पैर्वक्ष्यमाणैरभिसंबन्धनीयम् । किं गुणानामधिकार इति, सामान्येन परिपृष्टस्य विशेषपर्यनुयोगः । अधिकृतिरधिकारः, गुणानां प्रवृत्तिः ॥

 ननु गुणानामधिकारस्य कथमदर्शनाशङ्का ? उच्यते—अर्थद्वारेण भवत्येवादर्शनमधिकारः । यावद्धि गुणानां प्रवृत्तिस्तावद्वन्धः । बन्धकारणमविद्येति स्थितिस्थैर्यमानीयते । शब्दद्वारेणापि—दर्शनादन्यददर्शनं यदा, भवत्येव तदानीमाशङ्का । गुणाधिकारो हि दर्शनादन्य एवेति ॥

 आहोस्विद्दृशिस्वरूपस्य स्वामिनो दर्शितविषयस्य चित्तस्यानुत्पादः । इह तु पूर्वपदार्थप्रधानत्वमदर्शनस्य गृहीत्वा शङ्क्यते । चित्तस्यानुत्पादः प्रागुत्पत्तेर्दर्शनस्याभावः । किमुक्तं भवत्यनुत्पाद इत्यत आह—स्वस्मिन् दृश्ये चित्ते विद्यमाने यो दर्शनाभावः गुणपुरुषान्तरदर्शनानुत्पत्तिरदर्शनमिति ॥

 किमर्थवत्ता गुणानां भोगापवर्गाभ्यां या गुणानामर्थवत्ता तददर्शनमिति । अत्र त्वर्थद्वारेणैवाशङ्का । प्रयोजनवतो हि प्रयोजनमवश्यकृत्यमिति ॥

 कः पुनरेषु पक्षेषु दोषः ? उच्यते—यद्यधिकारो गुणानामदर्शनं विद्यानर्थक्यं प्राप्तम् । न ह्यस्मिन् पक्षे विद्या प्रत्यनीकभूता स्याददर्शनस्य । यस्माद्विद्याधिकारयोरविरोधः, अतश्चानिर्मोक्षः प्रसक्तः । पुनः पुनः प्रयोजनवत्तया प्रवृत्तिसंभवात् ॥

 गुणार्थवत्ता अदर्शनमिति पक्षेऽप्येष एव दोषः । तथा चित्तस्यानुत्पादपक्षेऽ

प्येष एव । अनुत्पादो हि दर्शनाभावः, तस्य चावस्तुत्वाद्विद्यया निवृत्तिरनुपपन्नेति । अभावे हि सति प्रत्यनीकविधानमनर्थकमेव ॥
व्यासभाष्यम्

 अथाविद्या स्वचित्तेन सह निरुद्धा स्वचित्तस्योत्पत्तिबीजम् ?

 किं स्थितिसंस्कारक्षये गतिसंस्काराभिव्यक्तिः ? यत्रेदमुक्तम्—प्रधानं स्थित्यैव वर्तमानं विकाराकरणादप्रधानं स्यात् । तथा गत्यैव वर्तमानं विकारनित्यत्वादप्रधानं स्यात् । उभयथा चास्य वृत्तिः प्रधानव्यवहारं लभते, नान्यथा । कारणान्तरेष्वपि कल्पितेष्वेष समानश्चर्चः ॥

विवरणम्

 अथाविद्या स्वचित्तेन सह निरुद्धेति । अत्र ह्याविद्याया अदर्शनस्य च केनचिदंशेन भेदं मन्यमानो विकल्पयति । कथम् ? अनिरुद्धा ह्यविद्या दृश्यमानत्वाद्दर्शनमेव । या तु निरुद्धा चित्तेन सह प्रलीना स्वकारणे । स्वचित्तस्योत्पत्तिबीजमुत्पत्तिकारणं सा न दृश्यत इत्यदर्शनमित्यभिमानः । ततश्चानिरोधावस्थाया दर्शनत्वप्रसङ्ग इति दुष्ट एवायं पक्षः स्यात् । अथ तु निरोधानिरोधावस्थयोरप्यदर्शनमेव, तथा सत्यभिमतसिद्धिरित्यदोष एव । किं स्थितिसंस्कारक्षये गतिसंस्काराभिव्यक्तिः । किमेतददर्शनमिति न संबध्यते । कथं तर्हि संबन्धः ? उच्यते—तत्राविद्या स्वचित्तसहनिरुद्धा चित्तस्योत्पत्तिबीजमित्युक्तं, तत इदमर्थात् सिद्धम्—चित्तं स्वकारणे निरुध्यते पुनश्चोत्पद्यत इति । ततश्चेदमपि सिद्धमर्थाच्चित्तस्य कारणमपि स्थित्या गत्या च वर्तत इति । ततश्चैतद्विस्पष्टीकरणार्थं पृच्छति ॥

  स्थित्यर्थो गुणानां साम्यवस्थाहेतुः संस्कारः स्थितिसंस्कारः । तस्य क्षये स्थितिसंस्कारक्षये गतिर्महदाद्याकारेण प्रवृत्तिस्तदर्थः संस्कारो गतिसंस्कारः तस्याभिव्यक्तिरिति ॥

 यदि स्थित्या गत्या च वर्तते, ततः को दोषः स्यात्तदुदाहरणेन दर्शयति—यत्रेदमुक्तं प्रधानं स्थित्यैव वर्तमानं विकाराकरणात् महदाद्याकारेणापरिणामादप्रधानं स्यात् । यतः प्रधत्ते विकारानिति प्रधानम् । तेन विकाराणां अप्रधातृत्वादप्रधानं स्यात् ।

 तथा गत्यैव वर्तमानं नित्यं विकाररूपेणैव वर्तमानं विकारनित्यत्वान्न विकारान् प्रधत्त इति कारणत्वहानेरप्रधानं स्यात् । उभयथा वृत्तिः गत्या स्थित्या च वर्तनं वृत्तिर्यस्य प्रधानस्य तदुभयथावृत्ति व्यवहारं प्रधानत्वव्यवहारं कारणत्वव्यवहारं लभते । नान्यथा प्रधानत्वं प्रधानस्य । कारणान्तरेष्वपि पुरुषेश्वरपरमाण्वादिषु परकल्पितेषु समानश्चर्चः तुल्यविषयः

व्यासभाष्यम्

  दर्शनशक्तिरेवादर्शनमित्येके । “प्रधानस्यात्मख्यापनार्था प्रवृत्तिः” इति श्रुतेः । सर्वबोध्यबोधसमर्थः प्राक् प्रवृत्तेः पुरुषो न पश्यति, सर्वकार्यकरणसमर्थं दृश्यं तदा न दृश्यत इति ।

 उभयस्याप्यदर्शनं धर्म इत्येके । तत्रेदं दृश्यस्य स्वात्मभूतमपि पुरुषप्रत्ययापेक्षं दर्शनं दृश्यधर्मत्वेन भवति । तथा पुरुषस्यानात्मभूतमपि दृश्यप्रत्ययापेक्षं पुरुषधर्मत्वेनैवादर्शनमवभासते ॥

 दर्शनं ज्ञानमेवादर्शनमिति केचिदभिदधति ।

विवरणम्

 न्यायः । प्रकृत एवाधुना निरूप्यते । दर्शनशक्तिरेवादर्शनमित्येके । दर्शनस्य शक्तिरनभिव्यक्तावस्था बीज इवानभिव्यक्ताङ्कुरावस्था तदेतददर्शनमित्येके मन्यन्ते । कुतः ? प्रधानस्यात्मप्रख्यापनार्था प्रख्यापनं दर्शनमाख्यायमानरूपता तस्यै तददर्शनमिति श्रुतेः ॥

 अस्मिन् पक्षे तदेवानभिव्यक्तात्मकं शक्तिरूपमदर्शनं तदेव चाभिव्यक्तं दर्शनमिति स्वात्मनि विरोधानुपपत्तेर्दर्शनाददर्शनस्य निवृत्त्यनवक्लृप्तिः ॥

 तथा दर्शनान्तरं—सर्वबोधसमर्थः बोधात्मकत्वात् प्राक् प्रवृत्तेः प्रधानप्रवृत्तेः प्राङ्न पश्यति दर्शनात्मकोऽपि सन् पुरुष इति । सर्वकार्यकरणक्रियासमर्थं दृश्यं प्रधानं न तदा प्राक्प्रवृत्तेः परमार्थमपि सत् दृश्यत इत्युभयस्य प्रधानपुरुषयोरदर्शनं धर्म इत्येके मन्यन्ते ॥

 अत्राप्युभयोरपि प्रागवस्थैवादर्शनमुत्तरकालावस्था च दर्शनमिति पूर्वदोषः स्थित एव । दृश्यस्वात्मभूतमव्यतिरिक्तमपि पुरुषप्रत्ययापेक्षं पुरुषाकारेण पुरुषस्य न दृश्यते । पुरुषाकारविशिष्टतया वा पुरुषस्य दृश्यत इति पुरुषप्रत्ययापेक्षमदर्शनं पुरुषस्य धर्मत्वेन भवति । तदेतत्स्पष्टयति—पुरुषस्यानात्मभूतमपि दृश्यप्रत्ययापेक्षं दृश्यप्रत्ययोऽज्ञानं तदपेक्षं, कथं पुरुषाकारेणादर्शनात् संकरेण वा दर्शनादन्तःकरणप्रत्ययापेक्षं पुरुषानात्मभूतमपि पुरुषधर्मत्वेनैवादर्शनमाभासते । तथा च सति दृश्यधर्म एवायमित्यदोषः ॥
व्यासभाष्यम्

 इत्येते शास्त्रगता विकल्पाः । तत्र विकल्पबहुत्वमेतत् ॥ २३ ॥

सर्वपुरुषाणां गुणसंयोगाविशेषः । असाधारणविषयस्तु प्रत्यक्चेतनस्य स्वबुद्धिसंयोगः— 

पठन विकल्प

पठन अपनी सुविधा से चुनें

भाषा
पठन

दिखावट

18 px
पृष्ठ का रंग
Hide menus for a clear reading page.

विषयानुक्रमणिका

१समाधिपादः
Read the whole pada →
२साधनपादः
Read the whole pada →
३विभूतिपादः
Read the whole pada →
४कैवल्यपादः
Read the whole pada →

Pada 2 · Sutras

Read the whole pada →