कैवल्यपादः · ४.२३

द्रष्टृदृश्योपरक्तं चित्तं सर्वार्थम् ॥ २३ ॥

विवरणम्

 तस्याश्च प्राप्तचैतन्योपग्रह[स्व]रूपायाः प्राप्तं चैतन्योपग्रहरूपं पुरुषोपग्रहरूपं यया बुद्धिवृत्त्या समासादितपावकोपग्रहरूपतप्तलोहपिण्डवत् दृशिकर्मत्वादेव अनुकारमात्रतया, बुद्धिवृत्तिसारूप्यमात्रतया । बुद्धिवृत्त्यविशिष्टा ज्ञवृत्तिरिति । ज्ञ एवोपलब्धिरेव वृत्तिरिति आख्यायते । ‘वृत्तिसारूप्यमितरत्र’ इति हि व्याख्यातम् । तथा ‘प्रत्ययाविशेषो भोगः’ इति प्रख्यापितम् ॥

 भोक्तृभोग्यभेदे च सति चित्ताकारापत्तिरुपपद्यते । न चासति व्यतिरिक्ते भोक्तरि चित्तस्यैव द्रष्टृदृश्योभयाभासत्वमकस्मादुपकल्पते । तस्मात् सुष्टूच्यते—‘साङ्ख्ययोगादय एव पुरुषं स्वशब्देनाभ्युपयन्ति’ इति । अन्ये तु शब्दान्तरेणोपयन्तोऽपि तत एव बिभ्यति ॥

 तथा चोक्तम्—बुद्धिवृत्त्यनुकारमात्रतया बुद्धावेव ज्ञवृत्तिरुपलभ्यते, नान्यत्रेति । न पातालं नो विवरं गिरीणां नैवान्धकारः कुक्षयो नोदधीनाम्, एवमादीनि न गुहा । यस्यां गुहायां निहितं ब्रह्म शाश्वतं सा गुहा, न पाताळादीनि । कस्यां पुनर्गुहायां निहितमित्याह—बुद्धावेव गुहायां वृत्तिम् आत्माख्यां ब्रह्माख्याम् अविशिष्टाम् अपृथग्भूतां बुद्धिवृत्त्यविशिष्टाम् वेदयन्ते विवेकिनः ॥ २२ ॥

व्यासभाष्यम्

 मनोऽभिमन्तव्येनार्थेनोपरक्तं, स्वयं च विषयत्वाद्विषयिणा पुरुषेणाऽऽत्मीयया वृत्त्याऽभिसंबद्धं, तदेतच्चित्तमेव द्रष्टृदृश्योपरक्तं विषयविषयिनिर्भासं चेतनाचेतनस्वरूपापन्नं विषयात्मकमिवाचेतनं चेतनमिव स्फटिकमणिकल्पं सर्वार्थमित्युच्यते ॥  तदनेन चित्तसारूप्येण भ्रान्ताः केचित् तदेव चेतनमित्याहुः ।

विवरणम्

  कस्मात् पुनः कारणात् पुरुषस्य चित्ताकारापत्तिः । तस्यां वा सत्यां स्वबुद्धिसंवेदनम् । कुतो वैनाशिकानां चित्तमेव ग्राह्यं ग्राहकं चेति भ्रान्तिरित्याह—द्रष्टृदृश्योपरक्तं चित्तं सर्वार्थम् । द्रष्टा पुरुषो दृश्यं शब्दादि ताभ्याम् उपरक्तं चित्तं सर्वार्थं पुरुषस्य भोगापवर्गार्थं भवति ।मनोऽभिमन्तव्येनार्थेन अयस्कान्तमणिदेशीयेन विषयेण उपरक्तं स्वयं च विषयत्वात् पुरुषस्य विषयिणा पुरुषेण सन्निहितेन आत्मीयया वृत्त्या मानसेन प्रत्ययेन विषयतया अभिसम्बद्धम् ॥

 तदेतच्चित्तम् आत्मवृत्तिद्वारेण पुरुषेण सम्बन्धाद्द्रष्टुः स्वरूपोपरक्तं शब्दादिना च मन्तव्येनोपरक्तमिति द्रष्टृदृश्योपरक्तं चित्तमेव न पुरुषः । द्रष्टृदृश्योपरक्तम् इत्यस्य व्याख्यानं करोति—विषयविषयिनिर्भासं चेतनाचेतनस्वरूपापन्नम् ॥

 कथं पुनः स्वयमचेतनं सच्चेतनस्वरूपाप्न्नमिति ? नैष दोषः—पुरुषेण नित्यसन्निधानाच्चेतनमिव । तदेवाविवेकिभिश्चेतनमित्युच्यते । न तथा विषयाः । नित्यमचेतनात्मका हि ते । स्वतस्तु चित्तमचेतनमेवेति चेतनाचेतनस्वरूपापन्नं इत्युच्यते ॥

 विषयात्मकमिव शब्दादिस्वरूपमात्रमिव चेत्यर्थः । अचेतनं चेतनमिव पुरुषस्वरूपापन्नमिव चेत्यर्थः । स्फटिकमणिकल्पं यथा स्फटिकमणिरलक्तकादिसन्निधौ तदाकारतां बिभर्ति, तथैव तत् सर्वार्थं चित्तम् उच्यते ॥

 तस्मात् अनेन चित्तसारूप्येण भ्रान्ताः केचित् । एतत्तु चित्तसारूप्यं वैशेषिकाणां प्रमोहकारणम् । वैशेषिकादयस्तु चित्तसारूप्यमाहेन्द्रजालव्यामोहितचेतसः तदेव चित्तं चेतनमित्याहुः । कथम् ? यस्मान्मनःपुरुषसंयोगजं चैतन्यं गुणः उच्छेदनीय इति मन्यन्ते । वैनाशिकेभ्यस्त्वयं विशेषः—स्थिरमेकं धर्मिणमिच्छन्तीति ॥

व्यासभाष्यम्

अपरे चित्तमात्रमेवेदं सर्वं नास्ति खल्वयं गवादिर्घटादिश्च स्वाकारेण लोक इति । अनुकम्पनीयास्ते । कस्मात् ? अस्ति हि तेषां भ्रान्तिबीजं सर्वरूपाकारनिर्भासं चित्तमिति । समाधिप्रज्ञायां प्रज्ञेयोऽर्थः प्रतिबिम्बीभूतः तस्यामालम्बनीभूतत्वादन्यः । स चेदर्थश्चित्तमात्रं स्यात्, कथं प्रज्ञयैव प्रज्ञारूपमवधार्येत । तस्मात् प्रतिबिम्बीभूतोऽर्थः प्रज्ञायां येनावधार्यते, स पुरुषः । इत्येवं ग्रहीतृग्रहणग्राह्यस्वरूपचित्तभेदात् त्रयमप्येतज्जातितः प्रविभजन्ते ते सम्यग्दर्शिनस्तैरधिगतः पुरुषः ॥ २३ ॥


[ विवरणम् ]

 अपरे बौद्धाः चित्तमात्रमेवेदं सर्वम्, नास्ति गवादिर्घटादिश्च स्वाकारेण विशिष्टः सर्वेषां प्रत्ययस्य साधारणो लोकः इति स्वानुभवमप्यपलपन्ति । ते एवं भ्रान्ताः सुकुमारतरबुद्धयो वैनाशिका अनुकम्पनीयाः ॥


 कस्मात् ? अस्ति हि तेषां भ्रान्तिबीजं सर्वरूपाकारनिर्भासं चित्तमिति । सनिमित्ता हि तेषां भ्रान्तिः न लोकायतिकानां शून्यवादिनामिव निर्बीजा । केवलजगद्वञ्चनार्थप्रवृत्तत्वात्तु नैतेष्वनुकम्पा कर्तव्या । तस्माद्युक्तमुक्तं तेषां वराकाणां सबीजभ्रान्तचेतसामनुकम्पनीयमिति ॥


 के पुनरभ्रान्ता इत्याह—समाधिप्रज्ञायामिति । समाधिप्रज्ञाग्रहणमभ्रान्तचित्तग्रहणार्थम् । विक्षिप्तचेतसो हि भ्रान्ताः । समाधिप्रज्ञायाम् अभ्रान्तायां विशुद्धायां विवेकवत्यां प्रसन्नगम्भीरतरायां प्रज्ञेयोऽर्थः प्रतिबिम्बीभूतः निर्मलदर्पणमण्डल इव तस्यां समाधिप्रज्ञायां करणभूतायाम् आलम्बनीभूतत्वादन्यः प्रज्ञातः सकाशाज्जातिस्वरूपक्रियादिभिरन्यः॥


स चेत् अन्यः चित्तमात्रं स्यात् कथं प्रज्ञयैव प्रज्ञारूपमवधार्येत । स्वात्मनि क्रियाविरोधात् न हि कथञ्चिदवधार्येत । तस्मात् प्रज्ञायाः अन्योऽसावर्थः सः, यस्याः प्रज्ञायां प्रतिबिम्बीभूतोऽर्थो येनावधार्यते सः तस्याः प्रज्ञाया आलम्बनीभूताच्चार्थादन्यः कर्तृकारकभूतः । स पुरुषः ॥


 इत्येवं ये ग्रहीतृग्रहणग्राह्यस्वरूपभेदात् कर्तृकरणकर्मभेदोपपत्तेः, न हि निरवयवमेकमेवैकस्मिन् क्षणे वस्तु कर्तृ च कर्म च भवति, ततो ये त्रयमप्येतत् जातितः प्रविभजन्ते, ते सम्यग्दर्शिनः तैरधिगतः पुरुषः, प्राप्त इत्यर्थः । सामर्थ्यात्तु ज्ञात इति गम्यते ॥ २३ ॥
व्यासभाष्यम्

 कुतश्च—

पठन विकल्प

पठन अपनी सुविधा से चुनें

भाषा
पठन

दिखावट

18 px
पृष्ठ का रंग
Hide menus for a clear reading page.

विषयानुक्रमणिका

१समाधिपादः
Read the whole pada →
२साधनपादः
Read the whole pada →
३विभूतिपादः
Read the whole pada →
४कैवल्यपादः
Read the whole pada →

Pada 4 · Sutras

Read the whole pada →