विभूतिपादः · ३.५०

तद्वैराग्यादपि दोषबीजक्षये कैवल्यम् ॥ ५० ॥

व्यासभाष्यम्

  यदाऽस्यैवं भवति क्लेशकर्मक्षये सत्त्वस्यायं विवेकी प्रत्ययो धर्मः सत्त्वं च हेयपक्षे न्यस्तं पुरुषश्चापरिणामो शुद्धोऽन्यः सत्त्वादिति । एवमस्य ततो विरज्यमानस्य यानि क्लेशबीजानि दग्धशालिबीजकल्पानि प्रसवासमर्थानि तानि सह मनसा प्रत्यस्तं गच्छन्ति । तेषु प्रलीनेषु पुरुषः पुनरिदं तापत्रयं न भुङ्क्ते ।

विवरणम्

 सर्वात्मना सकलप्रकृतिविकारात्मना गुणाध्यवसायात्मकाः बुद्धयादिकारणभावपरिणताध्यवसायात्मकाः शान्तोदिताव्यपदेश्यधर्मानुप्रसर्पिणः स्वामिनं क्षेत्रज्ञं दृशिमात्रं अशेषगुणाः दृश्यत्वेन भोग्यत्वेन अवस्थिताः लभ्यन्ते इत्यर्थः ॥

 सर्वज्ञातृत्वं सर्वात्मकानां शान्तोदिताव्यपदेश्यधर्मत्वेनावस्थितानां गुणानां अक्रमोपारूढम् एककालभावि विवेकजं ज्ञानमित्यर्थः । इत्येषा सर्ववशित्वसर्वज्ञातृत्वलक्षणा विशोका नाम सिद्धिः । यां प्राप्य योगी सर्वज्ञः क्षीणक्लेशबन्धनो विहरति वशी ॥ ४९ ॥

 तद्वैराग्यादपि दोषबीजक्षये कैवल्यम् । यदा अस्यैवं भवति सर्वज्ञस्य सर्वभावानधितिष्ठतः क्लेशकर्मक्षये विवेकी सत्त्वस्य प्रत्ययः । कीदृश इत्याह—सत्त्वं च हेयपक्षे न्यस्तं परिणामित्वाशुद्धत्वत्रिगुणत्वादिभिः ।

पुरुषश्च सत्त्वविधर्मा अपरिणामी शुद्धोऽन्यः सत्त्वात् इत्यनेन प्रकारेण ॥

  ततः अपि सर्वज्ञसर्वभावाध्यक्षत्वात् विरज्यमानस्य यानि क्लेशबीजानि अविद्यावासनारूपाणि दग्धशालिबीजकल्पानि प्रसवासमर्थानि तानि चरितार्थेन प्रलीयमानेन सह आश्रयेण मनसा प्रत्यस्तं गच्छन्ति । तेषु प्रलीनेषु पुरुषः पुनरिदं तापत्रयं आध्यात्मिकादिलक्षणं न भुङ्क्ते ॥

व्यासभाष्यम्

  तदेषां गुणानां मनसि कर्मक्लेशविपाकस्वरूपेणाभिव्यक्तानां चरितार्थानां प्रतिप्रसवे पुरुषस्याऽऽत्यन्तिको गुणवियोगः कैवल्यं, तदा स्वरूपप्रतिष्ठा चितिशक्तिरेव पुरुष इति ॥ ५० ॥

पठन विकल्प

पठन अपनी सुविधा से चुनें

भाषा
पठन

दिखावट

18 px
पृष्ठ का रंग
Hide menus for a clear reading page.

विषयानुक्रमणिका

१समाधिपादः
Read the whole pada →
२साधनपादः
Read the whole pada →
३विभूतिपादः
Read the whole pada →
४कैवल्यपादः
Read the whole pada →

Pada 3 · Sutras

Read the whole pada →