कैवल्यपादः · ४.३१

 तदा सर्वावरणमलापेतस्य ज्ञानस्याऽऽनन्त्याज्ज्ञेयमल्पम् ॥ ३१ ॥

व्यासभाष्यम्

 सर्वैः क्लेशकर्मावरणैर्विमुक्तस्य ज्ञानस्याऽऽनन्त्यं भवति । आवरकेण तमसाऽभिभूतमावृतमनन्तं ज्ञानसत्त्वं क्वचिदेव रजसा प्रवर्तितमुद्घाटितं ग्रहणसमर्थं भवति । तत्र यदा सर्वैरावरणमलैरपगतं भवति, तदा भवत्यस्याऽऽनन्त्यम् । ज्ञानस्याऽऽनन्त्याज्ज्ञेयमल्पं संपद्यते । यथाऽऽकाशे खद्योतः ।

विवरणम्

क्लेशकर्मनिवृत्तौ जीवन्नेव विद्वान् मुक्तो भवति । कस्मात् एवम् ? यतो विपर्ययः मिथ्याज्ञानं भवस्य जन्मनः कारणम् । न हि क्षीणविपर्ययः कश्चित् क्वचिञ्जातो दृश्यते ॥ ३० ॥

 तदा सर्वावरणमलापेतस्य ज्ञानस्याऽऽनन्त्यात् ज्ञेयमल्पम् । तदा धर्ममेघसमाधिसमये, सर्वैः क्लेशकर्मावरणैः रजस्तमोजन्मभिः विमुक्तस्य, ज्ञानस्य सत्त्वपुरुषान्यताख्यातिमात्रस्य भवत्यानन्त्यम् । तत् कथमिति ? तमसा(न)ऽभिभूतमनन्तं ज्ञानसत्त्वं, तस्य तिरस्कृतरजोमलस्यानन्तस्य निस्तरङ्गमहोदधिदेशीयस्य निरहितस्याविक्रियस्य कथं तद्ग्रहणसामर्थ्यमित्याह—क्वचिद्रजसा प्रवर्तितं चित्तसत्त्वम् उद्घाटितं वायुनेव महापयोदमण्डलमाहतं सूचितं ग्रहणसमर्थं भवति । स्वतः सत्त्वस्याप्रवर्तनात् रजसो हि प्रवृत्तिसामर्थ्यमिति ॥

 तदाऽस्य चित्तस्य भवत्यानन्त्यम्, अशेषज्ञेयविषयत्वमम्बरतलमध्यवर्तिनो जलधरनिरोधनिर्गतस्य रवेरिव । तस्य ज्ञानस्यानन्त्यात् अशेषविषयत्वात् ज्ञेयमल्पं सम्पद्यते । यथा आकाशे खद्योतः इति । यथा आकाशापेक्षया खद्योतो न किंचिदेवमेतज्ज्ञानाभिसमीक्षया ज्ञेयं न किंचिदिति ॥

व्यासभाष्यम्

यत्रेदमुक्तम्—
“अन्धो मणिमविध्यत्तमनङ्गुलिरावयत् ।
अग्रीवस्तं प्रत्यमुञ्चत्तमजिह्वोऽभ्यपूजयत् ॥” इति ॥ ३१ ॥

पठन विकल्प

पठन अपनी सुविधा से चुनें

भाषा
पठन

दिखावट

18 px
पृष्ठ का रंग
Hide menus for a clear reading page.

विषयानुक्रमणिका

१समाधिपादः
Read the whole pada →
२साधनपादः
Read the whole pada →
३विभूतिपादः
Read the whole pada →
४कैवल्यपादः
Read the whole pada →

Pada 4 · Sutras

Read the whole pada →