कैवल्यपादः · ४.१७

तदुपरागापेक्षत्वाच्चित्तस्य वस्तु ज्ञाताज्ञातम् ॥ १७ ॥

व्यासभाष्यम्

अयस्कान्तमणिकल्पा विषया अयःसधर्मकं चित्तमभिसंबध्योपरञ्जयन्ति । येन च विषयेणोपरक्तं चित्तं स विषयो ज्ञातः ततोऽन्यः पुनरज्ञातः । वस्तुनो ज्ञाताज्ञातस्वरूपत्वात् परिणामि चित्तम् ॥ १७ ॥

विवरणम्

 अथापि काकतालीयन्यायेन भूयांसि चित्तानि युगपदुत्पद्येरन् तद्विषयं च वस्तु तत्समानकालमुन्मज्जतीति, तदेतेनैव पृष्ठोदराभावनिदर्शनेन प्रत्याख्यायि । नापि काकतालीयवृत्तान्तेनानादिसमयाधीनो व्यवहारसागर उत्तीर्यते । सर्वे च विज्ञानदर्शनश्लाधिषु दोषा इहापि समाना एव ॥

 तस्मात् आह—स्वतन्त्रोऽर्थः सर्वपुरुषसाधारणः यस्मिन्नवस्थिते समस्तलोकव्यवहार उपकल्प्यते । स्वतन्त्राणि च चित्तानि प्रतिपुरुषं प्रवर्तन्ते । तयोश्च अर्थचित्तयोः सम्बन्धादुपलब्धिः पुरुषस्य भोगः । तस्माद्भोक्ता पुरुषः चित्तं करणम् अर्थो विषयः कर्मभूत इत्येतेषां भोक्तृकरणकर्मणां विविक्तः पन्थाः ॥ १६ ॥

 कथं चित्ततद्विषययोः सम्बन्धात् पुरुषस्य भोग इत्याह—यद्वा, यस्य चित्तव्यतिरेकेण वस्तु नास्ति, चित्ततन्त्रमेव वा वस्तु, तस्य ज्ञाताज्ञातविषयत्वमनुपपन्नमित्याह—तदुपरागापेक्षत्वाच्चित्तस्य वस्तु ज्ञाताज्ञातम् । तेन विषयेण चित्तस्योपरागः तं प्रति अपेक्षा यस्य [तत्] चित्तं तदुपरागापेक्षम्, तस्य भावः तदुपरागापेक्षत्वं तस्मात् तदुपरागापेक्षत्वाच्चित्तस्य वस्तु ज्ञाताज्ञातम् ॥

व्यासभाष्यम्

  यस्य तु तदेव चित्तं विषयस्तस्य—

पठन विकल्प

पठन अपनी सुविधा से चुनें

भाषा
पठन

दिखावट

18 px
पृष्ठ का रंग
Hide menus for a clear reading page.

विषयानुक्रमणिका

१समाधिपादः
Read the whole pada →
२साधनपादः
Read the whole pada →
३विभूतिपादः
Read the whole pada →
४कैवल्यपादः
Read the whole pada →

Pada 4 · Sutras

Read the whole pada →