विभूतिपादः · ३.३८

बन्धकारणशैथिल्यात्प्रचारसंवेदनाच्च चित्तस्य परशरीरावेशः ॥ ३८ ॥
            [ विवरणम् ]
 आदर्शानुविधानाच्च । यथा खड्गे दीर्घं मुखं दृश्यते । न स्वमुखं दीर्घम् । प्रतिहतेन चेदुपलभ्येत चक्षुषा निजमुखं, तत्र आदर्शानुविधानमयुक्तम् ॥ ३५ ॥
  ततः प्रातिभश्रावणवेदनादर्शास्वादवार्ता जायन्ते । ततः स्वार्थे समाधानात्, प्रातिभात् आत्मसंयमजनितात् मानसात् ज्ञानात्, सूक्ष्मव्यवहितविप्रकृष्टातीतानागतज्ञानं सम्पद्यते । श्रावणात् दिव्यशब्दानां श्रवणम् । वेदनात् स्पर्शज्ञानात् सिद्धादीनां स्पर्शं जानाति । आदर्शात् चाक्षुषात् ज्ञानात्¹ दिव्यं रूपम् अवगच्छति । आस्वादात् रसनेन्द्रियज्ञानात् दिव्यरससंवेदनं भवति । वृत्तौ भवं वार्तं लोकसंव्यवहारज्ञानं, तस्मादेष संव्यवहारतत्त्वरूपं यथावदधिगच्छति ॥ ३६ ॥ 
   ते समाधावुपसर्गा व्युत्थाने सिद्धयः । ते प्रातिभादयः पुरुषे समाहितचित्तस्य उ(स्य समु)त्पद्यमाना उपसर्गाः पुरुषदर्शनप्रत्यनीकत्वात् । व्युत्थितचित्तस्योत्पद्यमानाः सिद्धयः । यद्यपि पुरुषे संयमादुत्पद्यन्ते, तथापि न विरक्तस्य समाहितचित्तस्य जायन्ते ॥ ३७ ॥

             [ भाष्यम् ]
  लोलीभूतस्य मनसोऽप्रतिष्ठस्य शरीरे कर्माश¹याद्बन्धः प्रतिष्ठेत्यर्थः । तस्य कर्मणो बन्धकारणस्य शैथिल्यं समाधिबलाद्भवति । प्रचारसंवेदनं च चित्तस्य समाधिजमेव । कर्मबन्धक्षयात्स्वचित्तप्रचारसंवेदनाच्च योगी चित्तं स्वशरीरान्निष्कृष्य शरीरान्तरेषु निक्षिपति । निक्षिप्तं चित्तं चेन्द्रियाण्यनुपतन्ति । यथा मधुकरराजानं मक्षिका उत्पतन्तमनूत्पतन्ति निविशमानमनु निविशन्ते, तथेन्द्रियाणि परशरीरावेशे चित्तमनु विधीयन्त इति ॥ ३८ ॥

पठन विकल्प

पठन अपनी सुविधा से चुनें

भाषा
पठन

दिखावट

18 px
पृष्ठ का रंग
Hide menus for a clear reading page.

विषयानुक्रमणिका

१समाधिपादः
Read the whole pada →
२साधनपादः
Read the whole pada →
३विभूतिपादः
Read the whole pada →
४कैवल्यपादः
Read the whole pada →

Pada 3 · Sutras

Read the whole pada →