कैवल्यपादः · ४.१०

तासामनादित्वं चाऽऽशिषो नित्यत्वात् ॥ १० ॥

व्यासभाष्यम्

 तासां वासनानामाशिषो नित्यत्वादनादित्वम् । येयमात्माशीः मरणं मा नु भूत्, भूयासमिति सर्वस्य दृश्यते, सा न स्वाभाविकी ।

विवरणम्

तथा चोक्तम् “ग्राह्योपरक्तः प्रत्ययो ग्राह्यग्रहणोभयाकारनिर्भासः” इत्यादि । जातिदेशकालव्यवहितेभ्यः संस्कारेभ्यः स्मृतयः । स्मृतिभ्यश्च पुनः संस्कारा इत्येवमेते स्मृतिसंस्काराः कर्माशयवृत्तिलाभवशावेशादभिव्यज्यन्ते । कर्माशयस्यापि वृत्तिलाभो देशादिनिमित्तापेक्षयेति प्रतिपादितम् ॥

 अतश्च व्यवहितानामपि निमित्तनैमित्तिकभावानुच्छेदादानन्तर्यमेव । यादृशः संस्कारस्तादृशी स्मृतिः । प्रतिनियतव्यञ्जकत्वाच्च तयोर्न विप्रकर्षः कारणम् । यतः कल्पशतव्यवहितादपि संस्कारादेव तुल्यजातीया स्मृतिरिति आनन्तर्यमेव सिद्धम् ॥ ९ ॥

 इदानीं वासनानामनादित्वेन विपाकनिर्वर्तकत्वमभिदर्शयति—संस्कारस्य चानादित्वमेकैकस्य चासङ्ख्ययोनिगमनं वैराग्यप्रतिपत्त्यर्थं प्रतिपादयति— तासामनादित्वं चाऽऽशिषो नित्यत्वात् । तासां वासनानामाशिषो नित्यत्वादनादित्वम् । येयमात्माशीः ‘मरणं मा नु भूत्’ इति, एवमाशीर्वा ‘भूयासम्’ इति सर्वस्य दृश्यते । सा न स्वाभाविकी स्वरसप्रवृत्ताऽपि निरूढाऽपि ॥

व्यासभाष्यम्

कस्मात्? जातमात्रस्य जन्तोरननुभूतजननमरणधर्मकस्य द्वेषदुःखानुस्मृतिनिमित्तो मरणत्रासः कथं भवेत् ? न च स्वाभाविकं वस्तु निमित्तमुपादत्ते । यस्मादनादिवासनानुविद्धमिदं चित्तं निमित्तवशात् काश्चिदेव वासनाः प्रतिलभ्य पुरुषस्य भोगायोपावर्तत इति ॥

 घटप्रासादप्रदीपकल्पं संकोचविकासि चित्तं शरीरपरिमाणाकारमात्रमित्यपरे प्रतिपन्नाः ।

विवरणम्

 कस्मात्? जातमात्रस्य अननुभूतजननमरणधर्मकस्य द्वेषानुस्मृतिनिमित्तो दुःखानुस्मृतिहेतुको वा मरणत्रासः कथं भवेत् ? न हि कथञ्चन दुःखस्मरणादिनिमित्तोपादानं स्वाभाविकस्योपपद्यते । न च स्वाभाविकं वस्तु निमित्तमुपादत्ते । न हि ज्वलनस्योष्णत्वं स्वाभाविकं सदात्मीयकार्ये निमित्तमीक्षेत ॥

 न चाननुभूते विषये स्मृतिरिष्टेऽनिष्टे वा कस्यचिदुपलभ्यते । अनुभूतप्रियानुस्मरणे, न च तद्विषयवाञ्छा । तथा अनुभूताप्रियानुस्मरणे, न तद्विषयो द्वेषत्रासश्च लोके परिदृश्यते । तथा च यो यो जातस्तस्य तस्येह जन्मन्यननुभूतजन्ममरणस्य जन्मानन्तरमेवात्माशीरभिदृश्यते । तस्मात् तदाशीर्नित्यत्वात् पूर्वजन्ममरणानुभवोऽनुमीयते । ततः पूर्वस्ततोऽपि पूर्व इति, स्मृतिसंस्काराणां तत्कारणानां च जन्ममरणानुभवानामनादित्वमनुमिमीमहे ॥

 तथैव एकैकस्य प्राणभृतोऽनेकयोनिगमनसिद्धिः । एवमेता वासना दुरवहाना अविहानीयाः । कुत एवम् ? यस्मादनादिवासनानुविद्धं चित्तमिदं निमित्तवशात् कर्मनिमित्तवशात् काश्चिदेव वासनाः प्रविपच्यमानकर्मतुल्यजातीयक्रियाविपाकाभि(न्न)निष्पादिताः प्रतिलभ्य पुरुषस्य भोगायोपावर्तते यावदवसिताधिकारमिति ॥

 तदेतच्चित्तं घटप्रासादप्रदीपकल्पं संकोचविकासि हस्तिमशकादिशरीरपरिमाणाकारं यथा दीपो घटप्रासादादिषु । तदेवम् अपरे प्रतिपन्नाः । तत्र च युक्तिमाह—तथा चेति । तथा च संकोचविकासित्वे च अन्तराभावः

[ भाष्यम् ]

तथा चान्तराभावः संसरणञ्च युक्तं इति ॥

 वृत्तिरेवास्य विभुनश्चित्तस्य संकोचविकासिनीत्याचार्याः ॥

 तच्च धर्मादिनिमित्तापेक्षम् । निमित्तं च द्विविधम्—बाह्यमाध्यात्मिकं च । शरीरादिसाधनापेक्षं बाह्यं स्तुत्यभिवादनादि, चित्तमात्राधीनं श्रद्धाद्याध्यात्मिकम् । तथा चोक्तम्—ये चैते मैत्र्यादयो ध्यायिनां विहारास्ते, बाह्यसाधननिरनुग्रहाः प्रकृष्टं धर्ममभिनिर्वर्तयन्ति । तयोर्मानसं बलीयः । कथं? ज्ञानवैराग्ये केनातिशय्येते ? दण्डकारण्यं च

विवरणम्

मरणादुत्तरकालं जन्मनश्च प्रागेतस्मिन् अन्तराले भवतीत्यन्तराभावः संसरणं सञ्चरणं येन सञ्चरति तदपि शरीरमातिवाहिकं चित्तस्याविभुत्वे युक्तमिति ब्रुवन्ति । वृत्तिरेवास्य विभुनश्चित्तस्य सङ्कोचविकासिनीत्याचार्याः । आचार्यग्रहणम् उपपत्तिमत्त्वात् पूजार्थम् । चित्तस्य स्थितिर्गतिश्च परिणामित्वाद्विभुत्वेऽपीन्द्रियाणां चोपपद्यते । योगिनां च विकरणभावः सर्वज्ञत्वं विभुत्वे घटते ॥

 न चोपभोगशून्यस्यातिवाहिकशरीरस्य कल्पनायामस्ति प्रमाणम् । शशविषाणवदनुपलभ्यमानत्वात् । “न ह वै सशरीरस्य सतः प्रियाप्रिययोरपहतिरस्ति” इति श्रुतेः । तथा “अथ यो हैताननन्तानुपास्ते ” इति श्रुतिः करणव्यापित्वं ख्यापयति ॥

 तच्च संकोचविकासित्वं वृत्तेः धर्मादिनिमित्तापेक्षम् । निमित्तं च द्विधा बाह्यमाध्यात्मिकं च । शरीरादिसाधनापेक्षं बाह्यं स्तुत्यभिवादनादि कर्म । किं पुनराध्यात्मिकम्? आह—केवलचित्तमात्राधीनं श्रद्धादि ॥

 तथा चोक्तम्—ये चैते मैत्र्यादयो ध्यायिनां विहाराः चित्तव्यापाराः चेष्टितानि ते बाह्यसाधननिरनुग्रहाः बाह्यसाधननिरपेक्षाः केवलचित्तमात्रनिर्वृत्ताः प्रकृष्टं धर्ममभिनिर्वर्तयन्ति ॥

 तयोः बाह्याध्यात्मिकयोर्निमित्तयोः मानसम् आध्यात्मिकं मैत्र्यादिचित्ताभिनिष्पन्नं निमित्तं बलीयः । कथम् इति ? ज्ञानवैराग्ये केनातिशय्येते ? न केनापीत्यर्थः । यतस्तृतीयपादानुक्रान्तविभूतिजातं ज्ञानवैराग्यसाध्यम् । दण्डकारण्यं

व्यासभाष्यम्

चित्तबलव्यतिरेकेण शारीरेण कर्मणा शून्यं कः कर्तुमुत्सहेत ? समुद्रमगस्त्यवद्वा पिबेत् ॥ १० ॥

पठन विकल्प

पठन अपनी सुविधा से चुनें

भाषा
पठन

दिखावट

18 px
पृष्ठ का रंग
Hide menus for a clear reading page.

विषयानुक्रमणिका

१समाधिपादः
Read the whole pada →
२साधनपादः
Read the whole pada →
३विभूतिपादः
Read the whole pada →
४कैवल्यपादः
Read the whole pada →

Pada 4 · Sutras

Read the whole pada →