विभूतिपादः · ३.११

सर्वार्थतैकाग्रतयोः क्षयोदयौ चित्तस्य समाधिपरिणामः ॥ ११ ॥

विवरणम्

 [तदा] निरोध्यमानं बाह्येभ्यः प्रत्ययेभ्यः संस्कारशेषं चित्तमिति व्याख्यातम् “विरामप्रत्ययाभ्यासपूर्वः संस्कारशेषोऽन्यः” इति ॥

 किमेतेन, आह—निरोधावसानत्वात् प्रत्ययाभावावसानतया परिणामस्य निरोधपरिणाम इति ॥

 सम्प्रज्ञातावस्थायां सन्तोऽपि प्रत्यया न विवक्षिताः । किं तु प्रतिक्षणसंस्कारान्यथात्वमेव विवक्ष्यते । यथा निरुद्धभूमिनि चेतसि विद्यमानोऽपि समाधिः न विवक्ष्यते । निरोधमात्रस्य विवक्षितत्वात् । तथा सबीजावस्थायामपि संस्कारान्यथात्वमात्रमेव विवक्षितम् । न प्रत्ययाः समाधिरेकाग्रता चेति ॥ ९ ॥

 तस्य चित्तस्य निरोधपरिणाममनुगच्छतः प्रशान्तवाहिता संस्कारात् । निरोधसंस्कारपाटवापेक्षा निरोधसंस्कारस्य पाटवं द्रढिमा तदपेक्षा प्रशान्तवाहिता प्रसन्नता चित्तस्य भवति ॥

 सा प्रशान्तवाहिता कियन्तं कालमित्याह—तं संस्कारं निरोधसंस्कारं आरभ्य यावत् व्युत्थानधर्मिणा व्युत्थानं धर्मो व्युत्थानजनितत्वाद्यस्य तेन संस्कारेण निरोधधर्मसंस्कारो नाभिभूयते, तावन्तं कालमस्य प्रशान्तवाहिता । निरोधसंस्कारसमुदयादिति ॥ १० ॥

विभूतिपादः तृतीयः

व्यासभाष्यम्

 सर्वार्थता चित्तधर्मः । एकाग्रताऽपि चित्तधर्मः । सर्वार्थतायाः क्षयः, तिरोभाव इत्यर्थः । एकाग्रताया उदयः, आविर्भाव इत्यर्थः । तयोः धर्मित्वेन अनुगतं चित्तम् । तदिदं चित्तं अपायोपजनयोः स्वात्मभूतयोर्धर्मयोः अनुगमात् समाधीयते । स चित्तस्य समाधिपरिणामः ॥ ११ ॥

पठन विकल्प

पठन अपनी सुविधा से चुनें

भाषा
पठन

दिखावट

18 px
पृष्ठ का रंग
Hide menus for a clear reading page.

विषयानुक्रमणिका

१समाधिपादः
Read the whole pada →
२साधनपादः
Read the whole pada →
३विभूतिपादः
Read the whole pada →
४कैवल्यपादः
Read the whole pada →

Pada 3 · Sutras

Read the whole pada →